SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकमज्ञप्त्याख्यप्रकरणं। २५ न्ति । अस्यैव विषयमुपदर्शयति । असंयतस्त्वेवं मिथ्यादृष्टिरेव एवं बध्नाति नान्य इति । असावपि प्रतीत्याङ्गीकृत्य ओसन्नभावं बाहुल्यभावं तुरवधारणे ओसन्नभावमेव न तु नियममिति । नियमे दोषमाह ॥ पावइ बंधाभावो उ अन्नहा पोग्गलाणभावाओ। इय वुद्धिगहणओ ते सधे जीवेहि जुजंति ॥ ३९ ॥ प्राप्नोति बन्धाभावस्तु अन्यथा पुद्गलानामभावात् । इति वृद्धिग्रहणतः ते सर्वे जीवैयुज्यन्ते ॥ ३९ ॥ प्राप्नोति आपद्यते बन्धाभावस्तु बन्धाभाव एवान्यथान्येन प्रकारेण सर्वे असंयता एवं बनन्तीत्येवंलक्षणेन । किमित्यत्रोपपत्तिमाह । पुद्गलानामभावाद्वध्यमानानां कर्मपुद्गलानामसंभवात् । तेषामेवाभावे उपपत्तिमाह । इति वृद्धिग्रहणतः एवमनन्तगुणरूपतया वृद्धिग्रहणेन ते कर्मपुद्गलाः सर्वे जीवैयुज्यन्ते कालान्तरेण सर्वे जीवैः संबध्यन्ते प्रभूततरग्रहणादल्पतरमोक्षाच्च । सहस्रमिव प्रतिदिवसं पञ्चरूपकग्रहणे एकरूपकमोक्षे च दिवसत्रयान्तः पुरुषशतेनेति । आह चोदकः मोक्खो ऽसंखिजाओ कालोआ ते अजिएहितो॥ भणिया णंतगुणा खलुन एस दोसो तओ जुतो॥४०॥ मोक्षोऽसङ्खयेयात्कालात् ते च अतो जीवेभ्यः। भणिता अनन्तगुणाः खलु नैष दोषः ततो युक्तः॥४०॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy