SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं। १७ प्रत्येकं साधारणं स्थिरमस्थिरं शुभाशुभंच ज्ञातव्यम्। सुभगदुर्भगनाम सुस्वरं तथा दुःस्वरं चैव ॥ २३ ॥ प्रत्येकनाम यदुदयादेको जीव एकमेव शरीरं निवर्तयति । साधारणनाम यदुदयाद्बहवो जीवा एकं शरीरं निवर्तयति । स्थिरनाम यदुदयाच्छरीरावयवानां शिरोऽस्थिदन्तादीनां स्थिरता भवति । अस्थिरनाम यदुदयात्तदवयवानामेव चलता भवति कर्णजिह्वादीनां । शुभाशुभं च ज्ञातव्यं । तत्र शुभनाम यदुदयाच्छरीरावयवानां शुभता यथा शिरसः विपरीतमशुभनाम यथा पादयोस्तथा शिरसा स्पृष्टस्तुष्यति पादाहतस्तु रुष्यति, कामिनीव्यवहारे व्यभिचार इति चेत् न, तस्य मोहनीयनिबन्धनत्वात् वस्तुस्थिति श्चेह चिन्त्यत इति । सुभगनाम यदुदयात्काम्यो भवति । तद्विपरीतं च दुर्भगनामेति । सुस्वरनाम यदुदयात्सौस्वयं भवति श्रोतः प्रीतिहेतुः । तथा दुःस्वरं चैवेति सुस्वरनामोक्तविपरीतमिति ॥ आइज्जमणाइज्जं जसकित्तीनाममजसकिती य। निम्माणनाममउलं चरमं तित्थयरनामं च ॥२४॥ आदेयमनादेयं यश कीर्तिनाम अयशकीर्ति च। निर्माणनाम अतुलं चरमं तीर्थकरनाम च ॥ २४ ॥ आदेयनाम यदुदयादादेयो भवति यच्चेष्टते भाषते वा तत्सर्व लोकः प्रमाणीकरोति तद्विपरीतमनादेयं । यशाकीर्तिनाम यदुदयाद्यशःकीर्तिभावः यशाकीयोर्विशेषः दानपुण्यफला कीर्तिः १ प्रमाणं करोति
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy