SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । क्षेपणशक्तिमतो धनुर्ग्रहणशक्तिवत् । एवमन्यत्रापि भिन्नविषयता सूक्ष्मधियावसेया। चः समुच्चये इति। आयवउज्जोयविहायगई य तसथावराभिहाणं च। बायरसहुमं पज्जुतापज्जतं च नायचं ॥ २२ ॥ आतपोद्योतविहायोगति सस्थावराभिधानं च । बादरसूक्ष्मपयोप्सापयोप्तं च ज्ञातव्यं ॥ २२॥ आतपनाम यदुदयादातपवान्भवति पृथिवीकाये आदित्यमण्डलादिवत् । उद्योतनाम यदुदयादुद्योतवान्भवति खद्योतकादिवत् । विहायोगतिनाम यदुदयाचंक्रमणं इदं च द्विविधं प्रशस्ताप्रशस्तभेदात् प्रशस्तं हंसगजादीनां अप्रशस्तमुष्टादीनामिति । त्रसनाम यदुदयाच्चलनं स्पन्दनं च भवति त्रसत्वमेवान्ये । स्थावराभिधानं चेतिः स्थावरनाम यदुदयादस्पन्दनो भवति स्थावर एवान्ये । चः समुच्चये । बादरनाम यदुदयाद्वादरो भवति स्थूर इत्यर्थः इन्द्रियगम्य इत्यन्ये । सूक्ष्मनाम यदुदयात्सूक्ष्मो भवति अत्यन्तश्लक्ष्णः अतीन्द्रिय इत्यर्थः । पर्याप्तकनाम यदुदयादिन्द्रियादिनिष्पत्तिर्भवति । अपर्याप्तकनाम उक्तविपरीतं यदुदयासंपूर्णपर्याप्त्यनिवृत्तिने त्वाहारशरीरेन्द्रियपर्याप्त्यनिवृत्तिरपि यस्मादागामिभवायुष्कं बध्वा नियंते सर्व एव देहिनः तच्चाहारशरीरेन्द्रियपर्याप्त्या पर्याप्तानामेव बध्यत इति । पतेयं साहारण-थिरमथिरसुहासुहं च नायवं। सभगदूभगनामं सूसर तह दूसरं चेव ॥ २३ ॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy