SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १६६ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । संज्वलनानां चतुर्णामपि क्रोधादीनां कषायाणामुदयोऽनुदयो वा भवेत्साधोरुदयश्चतुस्त्रियेकभेदः, अनुदयोऽप्येवं छद्मस्थवीतरागादेर्भावनीयः । इतरस्य श्रावकस्य कषायाणां द्वादशानामष्टानां चोदय एवेति यदा द्वादशानांतदा अनंतानुबंधिवर्जा गृह्यन्ते एते चाविरतस्य विज्ञेया यदा त्वष्टानां तदानन्तानुबन्ध्यप्रत्याख्यानवर्जा एते च विरताविरतस्येति द्वारं । तथा बन्धश्च भेदक इत्येतदाह। मूलपयडीस जइणो सतविहट्ठविहछविहिक्कविहं । बंधंति न बंधंति य इयरे उ सत्तविहबंधा ॥३०५॥ मूलप्रकृतिषु यतयः सप्तविधाष्टविधषधैिकविधबन्धकाः अबन्धकाश्च भवन्ति इतरे सप्तविधबन्धकाः तु॥३०५॥] मूलप्रकृतिषु ज्ञानावरणादिलक्षणासु विषयभूतासु तस्मिन्विषय इति के यतय इति साधवः सप्तविधाष्टविधषधैिकविधबंधकाबन्धकाश्च भवंति एतद्भावयिष्यति । इतरे श्रावकाः सप्तविधबन्धकाः तुशब्दादष्टविधबन्धकाश्चायुष्कबन्धकाल इति । एतदेव विवृण्वन्नाह । सतविहबंधगा हंति पाणिणो आउवज्जियाणं तु । तह सुहमसंपराया छविहबंधा विणिहिट्ठा ॥ ३०६॥ [ससविधबन्धका भवन्ति प्राणिनो आयुर्वर्जितानामेव । तथा सूक्ष्मसंपरायाः षड्डिधबन्धका विनिर्दिष्टाः॥३०६॥] सप्तविधबन्धका भवन्ति प्राणिनो जीवा आयुर्वर्जितानामेव ज्ञानावरणीयादिप्रकृतीनां सप्तानामिति तथा सूक्ष्मसंपरायाः श्रेणि
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy