SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १६७ द्वयमध्यवर्तिनः तथाविधलोभाणुवेदकाः षड्डिधबन्धका विनिर्दिष्टास्तीर्थकृद्भिरिति ॥ मोहाऊवजाणं पयडीणं ते उ बंधगा भणिया। उवसंतखीणमोहा केवलिणो एगविहबंधा ॥३०७॥ [मोहायुर्वर्जानां प्रकृतीनां ते तु बन्धका भणिताः। उपशान्तक्षीणमोहाः केवलिन एकविधबन्धाः ॥३०७॥ मोहायुर्वर्जानां प्रकृतीनां ज्ञानावरणादिरूपाणां ते तु सूक्ष्मसंपराया बन्धका भणिता,मोहनीयं न बध्नन्ति निदानाभावात्तस्य किंचिच्छेषमात्रत्वावस्थितावप्यसमर्थत्वात् आयुष्कं न बध्नन्ति तथाविधपरिणामोपात्तस्य वेदनास्थानाभावात् । उपशान्तक्षीणमोहाः श्रेणिद्वयोपरिवर्तिनः उपशान्तक्षीणच्छद्मस्थवीतरागाः केवलिनश्च सयोगिभवस्था एकविधबन्धका इति । ते पण दुसमयठिइस्स बंधगा न उण संपरायस्स । सेलेसीपडिवन्ना अबंधगा हुंति नायव्वा ॥ ३० ॥ [ते पुनर्दिसमयस्थिते बन्धका न पुनःसांपरायिकस्य । शैलेशीप्रतिपन्ना अबन्धका भवन्ति ज्ञातव्याः॥३०८॥] ते पुनरुपशान्तमोहादयस्तस्यैकविधस्य द्विसमयस्थितेरी-पथस्य बन्धका न पुनः सांपरायिकस्य पुनर्भवहेतोरिति । शैलेशीप्रतिपन्ना अयोगिकेवलिनोऽबन्धका भवन्ति ज्ञातव्याः सर्वथा निदानाभावादिति द्वारं । तथा वेदना भेदिकेल्याह
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy