________________
८०
ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | શ્લોક-૨૨ અહીં ચારિત્રધર્મ એ જીવદ્રવ્યનો વાસ્તવિક ધર્મ છે. શ્રુતધર્મ પણ એ જીવદ્રવ્યનો વાસ્તવિક ધર્મ છે. ગ્રામધર્મ એ કોઈ જીવદ્રવ્યનો કે કોઈપણ દ્રવ્યનો વાસ્તવિક ધર્મ નથી. પરંતુ તે તે ગામમાં વસનારા પુરુષો વડે પોતાના ગામની વ્યવસ્થા માટે કલ્પના કરાયેલો ધર્મ છે અને ધર્મરુચિપદથી દરેક પદાર્થોમાં વર્તતા વાસ્તવિક ધર્મોનું ગ્રહણ છે તેથી તેવા વાસ્તવિક ધર્મોની રુચિ તે સમ્યક્ત છે. માટે ચારિત્રધર્મની રુચિવાળા કે શ્રતધર્મની રુચિવાળા જીવોના સમ્યક્તમાં “ધર્મરુચિસમ્યક્ત'નું લક્ષણ સંગત થશે.] टी :
"शिष्यव्युत्पादनार्थं चेत्थमुपाधिभेदेन सम्यक्त्वभेदनिर्देशः, तेन क्वचित्केषाञ्चिदन्तर्भावेऽपि न क्षतिः" [] इत्युत्तराध्ययनवृत्तौ यथा च नान्तर्भावस्तथोक्तमस्माभिः, तथापि नैतदन्यतरत्वं सम्यक्त्वलक्षणम्, रुचीनां तत्तद्विषयभेदेन परिगणनस्याशक्यत्वात्, रुचेः प्रीतिरूपत्वेन वीतरागसम्यक्त्वेऽव्याप्तेश्च, "दसविहे सरागसम्मत्तदंसणे पण्णत्ते" [सू. ७५१] इति स्थानाङ्गसूत्रस्य स्वारस्येन सरागसम्यक्त्वस्यैव लक्ष्यत्वेन च रागस्याननुगतत्वेन लक्ष्यभेदाल्लक्षणभेदोऽवश्यमनुसरणीय इति, वस्तुतो लक्षणमिह लिङ्गं व्यञ्जकमितियावत् व्यञ्जकस्य च वह्निव्यञ्जकधूमालोकवदननुगमेऽपि न दोषः, अत एव च “नाणं च दंसणं चेव" [नवतत्त्व प्र. गा. ५] इत्यादिना ज्ञानदर्शनचारित्रतपःप्रभृतीनामननुगतानामेव जीवस्वरूपव्यञ्जकत्वरूपजीवलक्षणत्वम्, उक्तं, लिंगं विनापि लैङ्गिकसद्भावेऽप्यविरोधश्च, यदाहुरध्यात्ममतपरीक्षायामुपाध्यायश्रीयशोविजयगणयः -
"जं च जीयलक्खणं तं, उवइ8 तत्थ लक्खणं लिङ्गं । तेण विणा सो जुज्जइ, धूमेण विणा हुयासुव्व ।।१।।" [गा. १५२] त्ति ।
एवं च रुच्यभावेऽपि वीतरागसम्यक्त्वसद्भावान्न क्षतिः, व्यङ्ग्यं त्वेकमनाविलसकलज्ञानादिगुणैकरसस्वभावं शुद्धात्मपरिणामरूपं परमार्थतोऽनाख्येयमनुभवगम्यमेव सम्यक्त्वम् । तदुक्तं धर्मबीजमधिकृत्योपदेशपदे -
"पायमणक्खेयमिणं, अणुहवगम्मं तु सुद्धभावाणं । भवखयकरंति गरुयं, बुहेहि सयमेव विण्णेयं ।।१।।" [गा. २३२] ति ।। स्वयमिति निजोपयोगतः, इक्षुक्षीरादिरसमाधुर्यविशेषाणामिवानुभवेऽप्यनाख्येयत्वात् । उक्तं च"इक्षुक्षीरगुडादीनां, माधुर्यस्यान्तरं महत् ।। तथापि न तदाख्यातुं, सरस्वत्याऽपि पार्यते ।।१।।" इति ।
यदि च धर्मबीजस्याप्येवमनुभवैकगम्यत्वम्, का वार्ता तर्हि भवशतसहस्रदुर्लभस्य साक्षान्मोक्षफलस्य चारित्रैकप्राणस्य सम्यक्त्वस्य? इति, शुद्धात्मपरिणतिस्वरूपे हि तत्र नातिरिक्तप्रमाणानां प्रवृत्तिः उक्तं च शुद्धात्मस्वरूपमधिकृत्याचारसूत्रे -