SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ (२) विनयकुशलविरचितं चरीदिभेदेन द्विधा । तत्र चराणां मण्डलादिवरूपमिह वक्ष्य इति ॥१॥ अत्र पूर्व तावत्सा द्वीपद्वयसमुद्रद्वयगतचन्द्रसूर्याणां सङ्ख्यामाह ससिरविणो दो चउरो, बार दुचत्ता विसत्तरी अकमा । जंबूलवणोप्राइसु, पंचसु ठाणेसु नायव्या ॥ २ ॥ ससिर । शशिनो रषयश्च द्वौ चत्वारो द्वादश द्विचत्वारिंशद् द्विसप्ततिर्नम्बूप्रभृतिप्वर्धतृतीयद्वीपेपु लवणकालोदध्योः समुद्रयोश्च पञ्चसु स्थानेषु ज्ञातव्याः । भावना यथा-द्वौ चन्द्रौ द्वौ सूर्यो जम्बूद्वीपे, एवं चत्वारो लवणसमुद्रे, द्वादश धातकीखण्डे, द्विचत्वारिंशत्कालोदधौ, द्विसप्ततिः पुष्करार्ध इति ॥ २ ॥ अथ निखिले नरलोके चन्द्रसूर्याणां सर्वाग्रमाह बत्तीससयं चंदा, बत्तीससयं च सूरिश्रा सययं । समसेणीए सव्व, माणुसखित्ते परिभमंति ॥३॥ बत्तीस । द्वात्रिंशदधिकं शतं चन्द्रा द्वात्रिंशदधिकं शतं सूर्याश्च 'सततं' निरन्तरं अपेरध्याहारात्सर्वेऽपि मनुष्यलोके 'समश्रेण्या' जम्बूद्वीपगतमेरोः परितः पतया परिभ्रमन्ति ॥ ३ ॥ अथ चन्द्रसूर्याणां कियन्त्यः पंक्तयः कथं च संस्थिताः ? इत्याह-- चत्तारि अपंतीयो, चंदाइचाण मणुअलोगम्मि । छावट्ठी छावट्ठी, होई इक्किकिया पंती॥ ४ ॥ चत्ता । इह मनुष्यलोके चन्द्रादित्यादीनां चतस्रः पतयो भवन्ति, - - १ आदिना स्थिरभेदो ग्राह्यः।
SR No.022037
Book TitleMandal Prakaran
Original Sutra AuthorN/A
AuthorChaturvijay Muni
PublisherJain Atmanand Sabha
Publication Year1922
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy