SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिभ्यो नमः । श्रीमद्-विनयकुशलविरचितस्वोपज्ञवृत्तिसङ्कलितं मण्डलप्रकरणम्। -*OKश्रीमद्वीरजिनं नत्वा, नित्यानित्यार्थदेशकम् । मण्डलादिविचारस्य, कुर्वे वृत्तिं सुबोधिकाम् ॥१॥ अन्यत्र ग्रन्थेषु विस्तराभिहितान् चन्द्रादिमण्डलादिविचारानवेश्यात्र संक्षेपेण तद्विचाराभिधित्सया मण्डलप्रकरणाभिधानस्य ग्रन्थस्येमामाद्यां गाथामाह--- पणमित्र वीरजिणिंद, भवमंडलभमणदुक्खपरिमुकं । चंदाइमंडलाई-विवारलवमुद्धरिस्सामि ॥ १ ॥ पणमिः । श्रीवीरजिनेन्द्रं 'प्रणम्य' नत्वा, किंलक्षणं वीरम् ? भवमण्डलभ्रमणस्य यदुःखं तेन परिमुक्तं-रहितं, चन्द्रादिमण्डलादिविचारलेशमुद्दरिष्यामि, जीवाभिगमाद्यागमादिति शेषः । इह चन्द्रादयः पञ्च-चन्द्र १ सूर्य २ ग्रह ३ नक्षत्र ४ तारका ५ रूपाः, ते
SR No.022037
Book TitleMandal Prakaran
Original Sutra AuthorN/A
AuthorChaturvijay Muni
PublisherJain Atmanand Sabha
Publication Year1922
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy