SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ सवृत्तिकं मण्डलप्रकरणम्। (३) तद्यथा-वे पंक्ती चन्द्राणां हे च सूर्याणामेकान्तरिते । एकैका च पंक्तिर्भवति षट्षष्टिषट्षष्टिचन्द्रसूर्यसङ्ख्या । तद्भावना चैवम्-एकः किल सूर्यो जम्बूद्वीपे मेरोदक्षिणभागे चारं चरन् वर्तते एक उत्तरभागे । तथा एकश्चन्द्रमा मेरोः पूर्वभागे एकोऽपरभागे । तत्र यो मेरोदक्षिणभागे सूर्यशारं चरन् वर्तते तत्समश्रेणिव्यवस्थितौ हौ दक्षिणभागे एव सूर्यौ लवणसमुद्रे, षडू धातकीखण्डे, एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्कराई इत्यस्यां सूर्यपंक्तौ षट्षष्टिः सूर्याः। तथा यो मेरोरुत्तरभागे सूर्यश्चारं चरन् वर्तते तस्यापि समश्रेण्या व्यवस्थितौ द्वौ सूर्यौ उत्तरभागे लवणसमुद्रे, षड् धातकीखण्डे, एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्कराः इत्यस्यामपि सूर्यपंक्तौ सर्वसङ्ख्यया षट्षष्टिः सूर्याः । तथा यो मेरोः किल पूर्वभागे चारं चरन् वर्तते चन्द्रस्तत्समश्रेणिव्यवस्थितौ पूर्वभागे द्वौ चन्द्रमसौ लवणे, षड् धातकीखण्डे, एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्करा. इत्यस्यां चन्द्रपंक्तौ सर्वसङ्ख्यया षट्षष्टिश्चन्द्रमसः । एवं यो मेरोरपरभागे चन्द्रमास्तन्मूलायामपि पंक्तौ षट्षष्टिश्चन्द्रमसो वेदितव्याः । स्थापनाऽये विलोक्या ॥ ४ ॥ अथ नक्षत्राणां पंक्तिखरूपमाह छप्पन्नं पंतीओ, नक्सत्ताणं तु मणुअलोगम्मि । छावट्ठी छावट्ठी, होई इक्किकिया पंती ॥ ५॥ छप्पन्न । नक्षत्राणां मनुष्यलोके सर्वसङ्ख्यया षट्पञ्चाशत्पङ्गयो भवन्ति । एकैका च पंक्तिर्भवति षट्षष्टिषट्षष्टिनक्षत्रपरिमाणा इत्यर्थः । तथाहि-किलास्मिन जम्बूद्वीपे दक्षिणतोऽढभागे एकस्य शशिनः परि
SR No.022037
Book TitleMandal Prakaran
Original Sutra AuthorN/A
AuthorChaturvijay Muni
PublisherJain Atmanand Sabha
Publication Year1922
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy