SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ इत्यनेन काव्यद्वयेन तथा श्रीमन्महेन्द्रसूरिविरचितविचारसप्त तिकामकरणवृत्तिगतेन 66 श्रीतपगणगगनाङ्गणसूरश्रीविजयदेवसूरीणाम् । विनियोगाद् वृत्तिरियं विनिर्मिता विनयकुशलेन ॥ १ ॥ " इत्येतत्काव्येन च श्रीमद्विजयसेन सूरिश्रीविजयदेवसूर्योः समानकालवर्तित्वेन विक्रमायद्विपञ्चाशदधिकषोडशशताब्दयां मण्डलमकरवृत्तिविरचितत्वेन च श्रीमतो विनयकुशलस्य सत्तासमयोऽपि निविवादं विक्रमीय सप्तदशशताब्दयामेव निश्रीयते । अनन्तरोक्तग्रन्थव्यतिरिक्तो ज्योतिश्चक्रविचारनामा ग्रन्थः श्रीमता विनयकुशलेन कृतोऽस्तीति श्रूयते परं न समासादि । अस्य प्रकरणस्य मुद्रणे द्रव्यसाहाय्यं भावनगरवास्तव्यश्रीमालिज्ञातीय - श्रेष्ठि- माणिक्यचन्द्र - तनूज - उजमसी इति नाम्ना कृतम् । तदस्यैतत्कार्यं प्रशंसार्हम् । एतस्य संशोधनसमये प्रवर्तक श्रीमत्कान्तिविजयपुस्तकसंग्रहाद्वे नव्ये अनतिशुद्धे पुस्तके समुपलब्धे । यद्यप्यनन्तरोदितपुस्तकद्वितयाधारेण सावधानतया संशोधनमकारि तथाप्यत्र दृष्टिदोषेण वचनाशुद्धिरवशिष्टा भवेत्तत्र संशोध्य वाचनीयं धीधनैरिति प्रार्थयते— सच्चरणाजचञ्चरीकः चतुरविजयः ।
SR No.022037
Book TitleMandal Prakaran
Original Sutra AuthorN/A
AuthorChaturvijay Muni
PublisherJain Atmanand Sabha
Publication Year1922
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy