SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandiri ॥ ९९ ॥ ॥ १०० ॥ ॥१०१ ॥ ॥ १०२ ॥ ॥ १०३ ॥ ॥ १०४॥ पापः श्याम इति प्रोक्तो वभ्रूस्तु कपिलो मतः । स्थविष्टं स्थावरे चैव दविष्टं दूरमुच्यते परमेष्ठी मत: श्रेष्ठ: प्रेम प्रियमुदाहृतम् । प्रकाशः स्त्रीगृहेरक्तः शैलूष इति संज्ञितः पदकृच्चर्मकारः स्यान्नापितस्त्वजयः स्मृतः । लावण्यमाहुर्माधुर्यं चित्रं च शुभकर्मजम् व्याधयश्चामयाः प्रोक्ताः पानीयं तु समुच्चयः । आधयस्तु स्मृताः प्राज्ञैश्चित्तोत्पन्ना उपद्रवाः रंहो वेग: समाख्यातः सत्रं सच्चरितं स्मृतम् । आलवालं स्मृतं सद्भिरपां वेगनिवारणम् चटक: कलविङ्कः स्यात्तुल्यं सदृशमुच्यते । किलासं पाण्डुरं ज्ञेयं दोला प्रेक्षेति शस्यते मन्दिरं नगरं ज्ञेयं निलयं चापि मन्दिरम् । सहस्रनयनोऽगारिः प्रधनं युद्धमुच्यते पलाशो हरितो वर्णो मेचको नीलपिञ्जरः । उक्षाणं वृषभं विद्याल्लुलायो महिषो मतः उस्रा वन्ध्या वसा वेहत् पृष्ठोही गर्भिणी हि या। व्याख्यातो मस्करो वेणुस्त्वचिसार: परिकीर्तितः हिलं कामं शपं चैव रोषमाहुर्मनीषिणः । कलभोऽल्पवयो नाग: कलुषं चाविलं मतम् वृजिनं कुटिलं विद्यात्सम्राट् राजा च भूभुजौ । रत्नं वजं विजानीयात्रियामा क्षणदा मता दीर्घ प्राशुं विजानीयात् ह्रस्वं नीचकमुच्यते । भूरि प्रभूतमुद्दिष्टमभित: सर्ववाचकम् ॥ १०५ ॥ ॥ १०७॥ ॥ १०८ ॥ ॥ १०९ ॥ || ११०॥ 33२ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy