SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७५ ॥ ।। ७६॥ ॥ ७७ ॥ ॥ ७८ ॥ ॥ ७९ ॥ ॥ ८० ॥ ........ निगद्यते। औषणं रसमुद्दिष्टमृतं सत्यमपि क्वचित् अक्ष आत्मेति विज्ञेयः केचिदाहुर्बिभीतकम् । ज्ञेयमिन्द्रियमक्षं च शाकटं कर्ष एव च अक्षं च पाशकं विद्याव्यावहारिकमेव च । पद्ममिन्द्रियमित्युक्तं पद्मं तामरसं विदुः चैत्यमायतनं प्रोक्तं नीडमायतनं तथा। पुष्पं लोहितमुद्दिष्टं पुष्पं च कुसुमं तथा वाजी तुरङ्गमो ज्ञेयो वाजी श्येनो विहङ्गमः । विष्ण्विन्द्रसिंहमण्डूकचन्द्रादित्याँस्तु वानरान् बभ्रुशिवानिलहयान् हरीनिच्छन्ति कोविदाः । पुरुषध्वजलिङ्गेषु हयभूषणलक्ष्मषु रामशेषावनीन्द्रेषु ललामं नवसु स्मृतम् । शुक्रा स्मृताऽक्षिदोषोना लवली मञ्जरी तथा वक्रवक्त्रः शुको ज्ञेयः कोकिला वचनप्रिया। पुलिनं जलविच्छेदः पङ्कजं स्यात्कुशेशयम् रतं पापमिति ज्ञेयं सत्वरं शीघ्रमुच्यते । पिशङ्गं रोचनाभं स्यान्मेचकस्तिलको मतः ललाटेऽवस्थितं चिह्न विद्वद्भिस्तलकं मतम् । परिचर्यं च कटकं निकषस्तु कषो मतः नानारत्नैरुपचिता मञ्जूषा रागिणी स्मृता । दिनकृद्वाजिसिंहेषु केसरित्वं विधीयते अव्यक्तो मधुरः शब्दः कल इत्यभिधीयते । अलातमुल्मुकं ज्ञेयं छेदो नाम भयङ्करः ॥ ८१ ॥ ॥ ८२ ॥ ॥ ८३ ॥ ॥ ८४ ॥ ॥ ८५ ॥ ॥८६॥ 330 For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy