SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥६४॥ ॥६५॥ ॥६६॥ ।।६७॥ ॥ ६८॥ मायाऽविद्येति विज्ञेया क्वचिन्माया तु सांवरी । मधु द्राक्षीति विज्ञेया क्वचित्स्यान्मधु माक्षिकम् मधु चाम्बु समाख्यातं सुरा च मधुसंज्ञका । खं रन्ध्रमिति विज्ञेयं खं गृहं नभ एव च खमिन्द्रियमिति ख्यातं खं च नक्षत्रमुच्यते । धार्तराष्ट्र महाहंसा धृतराष्ट्रसुताः क्वचित् प्रभाकरो मतः सूर्यो वह्निचापि प्रभाकरः । सितं शुक्लमिति ज्ञेयं सितं बद्धं प्रचक्षते असितं कृष्णमित्युक्तं अशितं भक्षितं स्मृतम् । बभ्रुस्तु नकुलो ज्ञेयः पाण्डवो नकुलस्तथा त्रिशङ्कुमाहुर्मार्जारमृषिश्चापि तथेष्यते। यमस्तु वायसो ज्ञेयो यमः प्रेताधिपस्तथा लक्ष्मणं सारसं विद्यात्तथा दशरथात्मजम् । लक्ष्म चन्द्रस्य काष्ण्यं स्यालक्ष्म्यः केतुः प्रकीर्तितः केतुश्चापि मतः काव्ये लक्ष्मेति मुनिपुङ्गवैः । आरुणेयः स्मृतो दक्षो दक्षश्चाचेतसः क्वचित् आशुकारी भवेद्दक्षः स्यादली तोमरः स्मृतः । आदित्यं च रविं विद्याद् दैत्यश्चाप्यदितेः सुतः रोगो रजस्तथा रेणू रजो लोहितमुच्यते। स्कन्धो नितम्बसंज्ञः स्यान्नितम्बं जघनं तटम् हेम वस्विति विज्ञेयं वसु तेजो निगद्यते । सारङ्गं चातकं प्राहुः स्वर्णे चापि सितासिती रम्भाश्च कदलीः प्राहू रम्भा स्वर्गाङ्गना मता। ग्रावाणो गिरिजाः प्रोक्ता मेघाश्चापि मनीषिभिः ॥६९ ॥ ॥ ७० ॥ ॥ ७१ ।। ।। ७२ ॥ ॥ ७३ ॥ ॥ ७४ ॥ ૩ર૯ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy