SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ९६॥ ॥ ९७॥ ॥९८ ॥ ॥ ९९ ॥ ॥१०० ॥ ॥ १०१॥ वैश्रवणं राजराज - मुत्तराशापति तथा । अलकानिलयं श्रीदं, धनपर्यायदायकम् राष्ट्रं जनपदो निर्गो, जनान्तो विषयः स्मृतः । पू: पुरं पुरी नगरी, पत्तनं पुटभेदनम् वक्त्रं लपनमास्यं च, वदनं मुखमाननम् । श्रवणं श्रोत्रं अवश्चापि, कर्णं चैव श्रुतिं विदुः दृगक्षि चक्षुर्नयनं, दृष्टिर्नेत्रं विलोचनम् । कटाक्षं केकराऽपाङ्ग, विभ्रमस्तस्य वैकृतम् दोर्दोषा च भुजो बाहुः, पाणिर्हस्तः करस्तथा । प्राहुर्बाहुशिरोंऽसं च, हस्तशाखा कराङ्गुलिः दन्तवासोऽधरोऽप्योष्ठो, वर्णितो दशनच्छदः । शिरोधरा गलो ग्रीवा, कण्ठश्च धमनी धमः नासा घ्राणमुरो वक्षः कुक्षिः स्याज्जठरोदरम् । स्तनः पयोधरः कुचो, वक्षोज इति वर्णितः कटिनितम्बः श्रोणिश्च, जघनं जानु जह्नु च । चलनं चरणं पादं, कमोऽध्रिश्च पदं विदुः शिरो मूर्घोत्तमाकं कं, प्रारभ्यं प्रेरितेरितम् । वाग् वचो वचनं वाणी, भारती गी: सरस्वती सिंहद्विपघने गों, हेषाऽश्वे बृंहितं गजे । स्फोत्कृतं धेनुकलभे, स्तनितं जलदे तथा स्यन्दने चीत्कृतं मन्त्रे, भटे च हुकृतम् तथा। सीत्कृतं मणितं कामे, खन्कृतं शृङ्खलाऽऽयुधे मञ्जीरकं तुलाकोटि-नूपुरं तत्र झङ्कृतम् । झाकृतं चाथ मरुति, क्रेङ्कृतं क्रौञ्चहंसयोः ।। १०२॥ ।। १०३॥ ।। १०४॥ ॥१०५ ॥ ॥ १०६॥ || १०७ ॥ ૨૮૭ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy