SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १०८॥ ॥ १०९॥ ॥ ११०॥ ॥१११ ॥ ॥ ११२ ॥ ॥ ११३॥ प्रतीतं संस्तुतं लब्धं, दृष्टं परिचितं स्मृतम् । संस्थितं दशमीस्थं च, परासुं च मृतं विदुः खेदो द्वेषोऽप्यमर्षश्च, रुट कोपक्रोधमन्यवः । हर्षः प्रमोदः प्रमदो, मुत्तोषाऽऽनन्द उत्सव: कृपाऽनुकम्पाऽनुकोशोऽहन्तोक्तिः करुणा दया। शेमुषी धिषणा प्रज्ञा, मनीषा धीस्तथाऽऽशयः प्राज्ञो मेधादिमान् विद्वा-नभिरूपो विचक्षणः । पण्डितः सुरिराचार्यो, वाग्मी नैयायिकः स्मृतः पारिषद्यो बुधः सभ्यः, सदस्यः सन् सभोचितः । आस्थानाधिपती राजा, राजसूयो नृपक्रतुः विष्टरं मल्लिकां पीठ-मासन्दीमासनं विदुः । विष्टपं भुवनं लोको, जगत्तस्य पतिजिनः सर्वज्ञो वीतरागोऽर्हन् केवली धर्मचक्रभृत् । तीर्थङ्करस्तीर्थकर-स्तीर्थकृद् दिव्यवाक्पतिः वर्षीयान् वृषभो ज्यायान्, पुरुषाद्यः प्रजापतिः । ऐक्ष्वाकः काश्यपो ब्रह्मा, गौतमो नाभिजोऽग्रजः सन्मतिर्महतिर्वीरो, महावीरोऽन्त्यकाश्यपः । ज्ञातान्वयो वर्धमानो, यत्तीर्थमिह साम्प्रतम् चेलं निवसनं वास-श्चीरमम्बरमंशुकम्। वस्त्राद्यन्तदिगाद्यादि-संज्ञितो वृषभेश्वरः कुकुमं रुधिरं रक्तं कस्तूरी मृगनाभिजा। कर्पूरं घनसारं च, हिमं सेवेत पुण्यवान् समालम्भोऽङ्गरागश्च, प्रसाधनविलेपनम् । भूषणाऽऽभरणं रुच्यं, माल्यं मालागुणस्रजः ॥ ११४॥ ॥ ११५ ॥ ॥ ११६॥ ॥ ११७॥ ॥ ११८ ॥ ।। ११९ ॥ ૨૮૮ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy