SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ध्वजं पताका केतुश्च, चिह्नं तद्वैजयन्त्यपि । तत्तदन्तो झषाद्यादिः, शम्भोर्विघ्नकरः स्मरः कौक्षेयकोऽसिर्निस्त्रिंशः, कृपाणः करवालकः । तरवारिर्मण्डलाग्रं, खड्गनामावलिं विदुः अक्षौहिणी बलाऽनीकं वाहिनी साधनं चमूः । ध्वजिनी पृतना सेना, सैन्यं दण्डो वरूथिनी कदनं समरं युद्धं, संयुगं कलहं रणम् । संग्रामं संपरायाऽऽजी, संयदाहुर्महाहवम् गजो मतङ्गजो हस्ती, वारणोऽनेकपः करी । दन्ती स्तम्बेरमः कुम्भी, द्विरदेभ- मतङ्गमाः शुण्डालः सामजो नागो, मातङ्गः पुष्करी द्विपः । करेणुः सिन्धुरस्तेषु, यन्ता याता निषाद्यपि नागाद्यरिः कण्ठीरवो, मृगेन्द्रः केसरी हरिः । व्याघ्रश्चमूरुः शार्दूलः, शरभोऽष्टापदोऽष्टपात् कोडो वराहो दंष्ट्री च, घृष्टिः पोत्री च शूकरः । उष्ट्रो मयः शूङ्खलकः, करभः शीघ्रगामुकः कौलेयकः सारमेयो, मण्डलः श्वा पुरोगतिः । जिह्वापो ग्रामशार्दूलः, कुक्कुरो रात्रिजागरः हेम चाऽष्टयपदं स्वर्ण, कनकाऽर्जुनकाञ्चनम् । सुवर्णं हिरण्यं भर्मं, जातरूपं च हाटकम् तपनीयं कलधौतं, कार्तस्वरं शिलोद्भवम् । रूप्यं रजतं गुलिका, शुक्तिजं मौक्तिकं तथा वित्तं वस्तु वसु द्रव्यं, स्वार्थं रा द्रविणं धनम् । कस्वरं तत्पतिं प्राहुः कुबेरं चैकपिङ्गलम् ૨૦૬ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 11 28 11 ॥ ८५ ॥ ॥ ८६ ॥ 11 2011 11 22 11 1168 11 ॥ ९० ॥ ॥ ९१ ॥ ॥ ९२ ॥ ॥ ९३ ॥ ॥ ९४ ॥ ॥ ९५ ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy