SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ७२॥ ।। ७३ ॥ ॥ ७४ ॥ ।। ७५ ॥ ।। ७६ ॥ ॥ ७७ ॥ विधिर्वेधा विधाता च, द्रुहिणोऽजश्चतुर्मुखः । पद्मपर्याययोनिश्च, पितामहविरञ्चिनौ हिरण्यगर्भः स्रष्टा च, प्रजापतिः सहस्रपात् । ब्रह्मात्मभूरनन्तात्मा, कस्तत्पुत्रो हि नारदः कृष्णो दामोदरो विष्णु-रुपेन्द्रः पुरुषोत्तमः । केशवश्च हृषीकेशः, शाी नारायणो हरिः केशी मधुर्बलिर्बाणो, हिरण्यकशिपुर्मुरः । तदादि-सूदनः शौरिः, पद्मनाभोऽप्यधोक्षजः गोविन्दो वासुदेवश्च, लक्ष्मी: श्री!मिनीन्दिरा । तत्पतिः शैलभूम्यादि-धरश्चक्रधरस्तथा तत्पुत्रो मन्मथ: कामः, शूर्पकारिरनन्यजः । कायपर्याय-रहितो, मदनो मकरध्वजः शिलीमुख: शरो बाणो, मार्गणो रोपण: कणः । इषुः काण्डं क्षुरप्रं च, नाराचं तोमरं खगः कार्मुकं धन्व चापं च, धर्म कोदण्डकं धनुः । शिलीमुखादेरासनं, तत्कोटिमटनीं विदुः पुष्पं सुमनसः फुल्लं, लतान्तं प्रसवोद्गमौ । प्रसूनं कुसुमं ज्ञेयं तदाद्यस्त्रशरः स्मरः स्वान्तमास्वनितं चित्तं, चेतोऽन्तःकरणं मनः । हृदयं विशिखाऽऽकूतं, मारस्तत्रोद्भवो मतः मौर्वी जीवा गुणो गव्या, ज्याऽलिङ्गः शिलीमुखः भ्रमरः षट्पदो ज्ञेयो, द्विरेफश्च मधुव्रतः मौर्व्यादिप्रान्तमल्यादि, कन्दर्पस्यैक्षवं धनुः । हेतिरस्त्राऽऽयुधं शस्त्रं, पुष्पाद्यस्त्रः स्मरो मतः ।। ७८॥ ॥ ७९ ॥ ।। ८०॥ ।। ८१ ॥ ।। ८२॥ ।। ८३ ॥ ૨૮૫ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy