SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ३२०॥ ॥ ३२१ ॥ ।। ३२२ ॥ ॥ ३२३॥ ॥ ३२४ ॥ ॥ ३२५ ॥ गवा सदृशरूपोऽयं पशुरित्येतदिष्यते । अक्षव्यापारसद्भावे जातेः प्रत्यक्षमिष्यते तत्र यद्यपि गां स्मृत्वा तज्ज्ञानमुपजायते । सन्निधेर्गवयस्थत्वात् भवेदिन्द्रियगोचरम् सामान्यवद्धि सादृश्यं प्रत्येकं च समाप्यते । प्रतियोगिन्यदृष्टेपि तस्मात्तदुपलक्ष्यते सादृश्यस्य च वस्तुत्वं न शक्यमपबाधितुम् । भूयोऽवयवसामान्ययोगो जात्यन्तरस्य तत् तस्यामेव त्ववस्थायां यद्विज्ञानं प्रजायते । पशुनैतेन तुल्योसौ गोपिण्ड इति सोपमा तस्माद्यत्स्मर्यते तत्तु सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदाश्रितम् प्रत्यक्षेणावबुद्धे च सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतो भावे उपमायाः प्रमाणता प्रत्यक्षेपि यथा देशे स्मर्यमाणे च पावके । विशिष्टविषयत्वेन नानुमानाप्रमाणता न हि प्रत्यक्षता तस्य विज्ञानस्योपपद्यते । इन्द्रियत्वाभिसम्बन्धव्यापारविरहात्तदा त्रैरूप्यानुपपत्तेश्च न च तस्यानुमानता । पक्षधर्मादि नैवात्र कथञ्चिदपि युज्यते नासमानेषु सामान्यं समाना नापि तद्विना । पिण्डेभ्यो भिन्नसामान्ये दोषोऽयमितरेतरः पिण्डेभ्यो यदि सामान्यं भिन्नमभ्युपगम्यते । सर्वात्मनैकदेशेन तेषु तद्वर्त्तते ननु ।। ३२६ ॥ ॥ ३२७॥ ॥ ३२८ ॥ ॥ ३२९॥ ॥ ३३० ॥ ॥ ३३१ ॥ 3७२ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy