SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सर्वानुगे च सामान्ये पिण्डवद् दृश्यतेष्यताम् । तददृष्टयवदृश्यत्वं पिण्डानामनुषज्यते अत्रोच्यते नु सादृश्यमेकनिष्ठं द्वयाश्रितम् । नान्वयज्ञानसम्भूतिरेकनिष्ठं यदा हि तत् द्वयनिष्ठे तु सामान्ये गोपिण्डे गवयेपि वा । गृहीते तद्गृहीतं नु नोपमानमिहापरम् एवं लिङ्गावसाये च उपमातो न चान्यतः । दृष्यन्तान्वेषणं केन तत्र वः सम्मतं ननु प्रत्यक्षेणावसीयन्ते हेतवः साध्यधर्मिणि । सम्बन्धग्राहिमानं नो ज्ञात एव प्रतीयते प्रत्यक्षबलसम्भूतस्मरणं नापरा प्रमा । प्रत्यक्षगोचरातीतगोचरान्तरहानित: कीदृग्गवय इत्येवं पृष्टो नागरकैर्यदा । ब्रूयादारण्यको वाक्यं यथा गौर्गवयस्तथा श्रुतातिदेशवाक्यस्य समानार्थोपलम्भने । संज्ञासम्बन्धविज्ञानमुपमा कैश्चिदिष्यते आदेश श्रवणे तस्य संज्ञासम्बन्धनिश्चयः । गवयस्योपलम्भे च कोपमेह त्वयोच्यते अन्यथा किं विजानीते समानपशुदर्शने । सोयं यस्य मया संज्ञा संश्रुतेति तदा ननु न ह्यविज्ञातसम्बन्धः शक्त एवं विवेचितुम् । सोयं यस्य पुरा नाम शबरेण निवेदितम् सूत्रे यच्चोपमा नाम न नन्द्याख्य उदिता किल । वादकाले फलं तस्य नान्यदेति विदुर्बुधाः 363 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ३३२ ॥ ॥ ३३३ ॥ ॥ ३३४ ॥ ॥ ३३५ ॥ ॥ ३३६ ॥ ।। ३३७ ॥ ॥ ३३८ ॥ ॥ ३३९ ॥ ॥ ३४० ॥ ॥ ३४१ ॥ ॥ ३४२ ॥ ॥ ३४३ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy