SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org विश्वव्यापी न वाध्यक्षान्नाकर्त्ता नाप्यचेतनः । एको नाभौ न चाङ्गुष्ठपर्वमात्रो न सूक्ष्मकः तत्पूर्वकमनुमानं स्वातन्त्र्ये न प्रमा तथा । अन्योन्याश्रयदोषोप तच्चेत्तत्पूर्वकं मतम् तस्मादागमगम्योयं विभागः परिकल्पितः । परैर्मुधा यतो नैव सर्वज्ञजिनभाषित: तद्गदितेन ये भावाः शिष्यस्तेषु न युज्यते । प्रमाणव्याहतिर्यद्वदेषु पक्षेषु दृश्यते यदि प्रत्यक्षगम्यश्च सत्यतः पुरुषो भवेत् । तत् किमर्थं विवादोऽयं तत्सत्तादौ प्रवर्त्तते इष्टघाति निराधारमन्वयेन विवर्जितम् । प्रमाणमस्य संसिद्धौ विशेषेषु विशेषतः निर्युक्तौ साधनं यच्च जीवसंसिद्धये कृतम् । तद्वा इष्टघातादिदोषो जल्पेऽनुषज्यते तस्माच्च निग्रहस्थानं शासनस्य पराभवः । तस्मादतीन्द्रियार्थानां वचनमेव प्रमा परा चिद्रूपता मनस्कारादाकारो नानिमित्तकः । नाविद्यालम्बनं बुद्धेस्तत्त्वज्ञेऽभेदिनी मतिः विषयाधिगतिश्चात्र प्रमाणफलमिष्यते । एतान्येव प्रमाणानि नापरं विषयादृते अयमेवेति यो ह्येष भावे भवति निर्णयः । नैष वस्त्वन्तराभावसंवित्त्यनुगमादृते गां दृष्ट्वाऽयमरण्येऽन्यं गवयमीक्षते यदा । भूयोऽवयवसामान्यभाजं वर्त्तुलकण्ठकम् ३७१ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ३०८ ॥ ॥ ३०९ ॥ ।। ३१० ।। ॥ ३११ ॥ ॥ ३१२ ॥ ॥ ३१३ ॥ ॥ ३१४ ॥ ॥ ३१५ ॥ ॥ ३१६ ॥ ॥ ३१७ ॥ ॥ ३१८ ॥ ॥ ३१९ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy