SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चारित्रैश्वर्यसंपन्नं पुण्यप्राग्भारभाजनम् । मूढबुद्धिर्न वेत्ति स्वं त्रैलोक्योपरिवर्त्तिनम् ततश्च भिक्षुकप्रायं मन्यमानो विपर्ययात् । भावनिः स्वधनेशानां ललनानि करोत्यसौ प्रशान्तस्य निरीहस्य सदानन्दस्य योगिनः । इन्द्रादयोऽपि ते रङ्कप्रायाः स्युः किमुतापराः किं विभुत्वेन किं भोगैः किं सौन्दर्येण किं श्रिया । किं जीवितेन जीवानां दुःखं चेत् प्रगुणं पुरः नार्थ्यते यावदैश्वर्यं तावदायाति सम्मुखम् । यावदभ्यर्थ्यते तावत् पुनर्याति पराङ्मुखम् अधैर्यादविचार्येदमिच्छाव्याकुलमानसः । हा हा हेति तदर्थं स धावन् धावन् न खिद्यते स्थिरो धीरस्तु गम्भीरः संपत्सु च विपत्सु च बाध्यते न च हर्षेण विषादेन न च क्वचित् ये सिद्धा ये च सेत्स्यन्ति सर्वे सत्त्वे प्रतिष्ठिताः । सत्त्वं विना हि सिद्धिर्न प्रोक्ता कुत्रापि शासने एवमेव सुखेनैव सिद्ध्यन्ति यदि कौलिकाः तद् गृहस्थादयोऽप्येते किं न सिद्ध्यन्ति कथ्यताम् सुखाभिलाषिणोऽत्यर्थं ग्रस्ता ऋद्ध्यादिगारवैः । प्रवाहवाहिनो हात्र दृश्यन्ते सर्वजन्तवः एवमेव सुखेनैव सिद्धिर्यदि च मन्यते । तत्प्राप्तौ सर्वजन्तूनां तदा रिक्तो भवेद् भवः लोकेऽपि सात्त्विकेनैव जीयते परवाहिनी । उद्धूलिकोऽपि नान्येषां दृश्यतेऽह्राय नश्यताम् 3१८ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ १३९ ॥ ॥ १४० ॥ ॥ १४१ ॥ ॥ १४२ ॥ ॥ १४३ ॥ ।। १४४ ।। ।। १४५ ।। ॥ १४६ ॥ ॥ १४७ ॥ ॥ १४८ ॥ ॥ १४९ ॥ ॥ १५० ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy