SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org लोकोत्तरान्तरङ्गस्य मोहसैन्यस्य तं विना । संमुखं नापरैः स्थातुं शक्यते नात्र कौतुकम् सर्वमज्ञस्य दीनस्य दुष्करं प्रतिभासते । सत्त्वैकवृत्तिवीरस्य ज्ञानिनः सुकरं पुनः द्वित्रास्त्रिचतुरा वापि यदि सर्वजगत्यपि । प्राप्यन्ते धैर्यगाम्भीर्यौदार्यादिगुणशालिनः बाहुल्येन तदाभासमात्रा अपि कलौ कुतः । बुसप्रायैस्तु लोकोऽयं पूरितो भवपूरकैः मानुष्यं दुर्लभं लब्ध्वा ये न लोकोत्तरं फलम् । गृह्णन्ति सुखमायत्यां पशवस्ते नरा अपि तत्पुनर्मोक्षदो धर्मः शीलाङ्गवहनात्मकः । प्रतिस्रोतः प्लवात् साध्यः सत्त्वसारैकमानसैः ततः सत्त्वमवष्टभ्य त्यक्त्वा कुग्राहिणां ग्रहम् । क्रियतां भोः सुधर्मस्य करणायोद्यमः सदा कायेन मनसा वाचा यत्कर्म कुरुते यदा । सावधानस्तदा तत्त्वधर्मान्वेषी मुनिर्भवेत् इष्टानिष्टेषु भावेषु सदा व्यग्रं मनो मुनिः । सम्यनिश्चयतत्त्वज्ञः स्थिरीकुर्वीत सात्त्विकः अशुभं वा शुभं वापि स्वस्वकर्मफलोदयम् । भुञ्जानानां हि जीवानां हर्ता कर्ता न कश्चन मृतप्रायं यदा चित्तं मृतप्रायं यदा वपुः । मृतप्रायं यदाक्षाणां वृन्दं पक्वं तथा सुखम् आजन्माज्ञानचेष्टाः स्वा निन्द्यास्ताः प्राकृतैरपि । विचिन्त्य मूढ ! वैदग्ध्यगर्वं कुर्वन्न लज्जसे ३२० For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ १५१ ॥ ।। १५२ ।। ॥ १५३ ॥ ॥ १५४ ॥ ।। १५५ ॥ ॥ १५६ ॥ ॥ १५७ ॥ ॥ १५८ ॥ ॥ १५९ ॥ ॥ १६० ॥ ॥ १६१ ॥ ॥ १६२ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy