SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १२ ॥ ॥ १३॥ ।। १४ ।। ॥ १५ ॥ ॥ १६ ॥ ॥१७॥ कर्णौ भोगभृतां मूर्ध्नि साधु नाऽधत्त यद् विधिः । सकर्णकोऽथ कुरुते मर्मवित् कर्म तादृशम् गर्व ! सर्वङ्कषोऽस्मीति गिरं मा स्म वृथा कृथाः । अद्यापि तव जैत्राणि चरित्राणि दुरात्मनाम् समर्थानां समर्थोऽरि-निग्रहाय परिग्रहः । प्रभविष्णुस्तमोऽन्ताय प्रभा प्रातः प्रभापतेः स्वामिन्यस्तं प्रपेदाने सीदत्येव परिच्छदः । भास्वत्यस्तमिते म्लान-कमला: कमलाकरा: चारुणा परिवारेण प्रभुलॊके महीयते । महीरुहेषु महितः किकिल्लिर्निजपल्लवैः महिमानं महीयांसं सङ्गः सूते महात्मनाम् । मन्दाकिनीमृदो वन्द्यास्त्रैवेदीवेदिनामपि सदा सर्वजनैर्भोग्यं श्लाघ्यं भवति वैभवम् । सुखपेयं(य-)पयःपूरं वरं कूपात् सरोवरम् लोकम्पृणानपि गुणान् दोषः स्वल्पोऽपि दूषयेत् । अपेया पश्य पीयूष-गर्गरी गरबिन्दुना प्रीणयन्नुपकुर्वाणं कुर्यात् कार्यविचक्षणः । पुष्पन्धि(न्ध)यो न पुष्पाणि दुनोति स्वं धिनोति च क्रूरप्रभोः प्रभुत्वेन जनो जीवन् मृतायते । असन्त इव सन्तोऽपि स्युर्भावास्तिमिरोदयात् तावत् तेजस्विनस्तेजो यावद् भाग्यमभङ्गुरम् । क्षीणतैलः कियत्कालं दीपो(पको)ऽपि प्रदीप्यते निजमन्दिरमुच्छिन्दन् जायते कोऽपि दुःसुतः । स्वाश्रयं नाशयत्याशु हताशोऽयं हुताशनः ॥ १८॥ ॥ १९॥ ।। २० ॥ ।। २१ ॥ 1॥ २२ ॥ ॥ २३॥ ૧૦૯ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy