SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१॥ ॥ २॥ ॥३॥ ॥ ४ ॥ ॥सूक्तमाला ॥ (अपरनाम) ॥ दृष्टान्तशतकम् ॥ प्रणिपत्य परं ज्योति- नाभणितिभङ्गिभिः । श्लोकैरेव यथाशक्ति सूक्तमालां वितन्महे कलाकलापसम्पन्ना जल्पन्ति समये परम् । घनागमविपर्यासे केकायन्ते न केकिनः उपकर्ता स्वतः कश्चिदपकर्ता च कश्चन । चैत्रस्तरुषु पत्राणां कर्ता हर्ता च फाल्गुनः कल्याणमूर्तेस्तेजांसि सम्पद्यन्ते विपद्यपि । किं वर्णिका सुवर्णस्य नारोहति हुताशने दधत्यार्तं सुखाकर्तुं सन्तः सन्तापमात्मना। सुदुःसहं सहन्ते हि तरवस्तपनाऽऽतपम् गुणिनः स्वगुणैरेव सेवनीयाः किमु श्रिया ? । कथं फलधिवन्ध्योऽपि नाऽनन्दयति चन्दनः नहोके व्यसनोद्रेकेऽप्याद्रियन्ते विपर्ययम् । जहाति दह्यमानोऽपि घनसारो न सौरभम् विकारमुपकारोऽपि कुरुते समयं विना । अकालोपस्थिता वृष्टि-महारिष्ट्यय जायते निसर्गेणैव पिशुनः स्वजनोच्छेदमिच्छति । राहुराहूयते केन विधोर्वेधुर्यहेतवे निजव्यापारनिश्चिन्ता निद्रायन्ते भुजङ्गमाः । जगद्रोहप्ररोहाय यतो जागत्ति दुर्जनः दुर्जनः कालकूटच ज्ञातमेतौ सहोदरौ । अग्रजन्माऽनुजन्मा वा न विद्मः कतरोऽनयोः ॥६॥ ॥ ७॥ ॥ ८॥ ॥ ९ ॥ ॥१०॥ ॥ ११ ॥ १०८ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy