SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org औरसः स्नेहमाहात्म्यं किञ्चिदन्यत् प्रवक्ष्यते । सम्पद्यापदि वा सिन्धु-विधुन्तुद (दा) नुरुध्यते उपार्जयति तत् कश्चिद् यन्नैवोपार्जि पूर्वजैः । फलं मधुरमाम्रस्य न पुनः कुसुमादयः मानिनां स्वामिनां दत्तं मुदेऽल्पमपि कल्पते । वरं पौरन्दरं वारि बप्पीह ! पातुमीहसे निर्लक्षण: क्षणालक्ष्मीमाश्रयस्यापि लुम्पते । पतन् कपोतः कुरुते शाखाशेषं हि शाखिनम् चिरात् फलिष्यतो नेतुर्दुरमुद्विजते जनः । कियत्कालं फलोत्तालस्तालमर्थी निषेवते कामं दूरफल (ल) स्वामी लभते वचनीयताम् । अद्यापि कविभिस्तालः सोपालम्भं निबध्यते प्रभोः संभावनाऽपैति तुच्छमेव प्रयच्छतः । अगादग्रेतनी कीर्ति र्वटस्येदृग् फलोदयः प्रभवेत् परिभोगाय सर्वस्य दिवसो 'निजः' । दीपैरपि पराल्लक्षैर्न हि दीपोत्सवो भवेत् सुकृतं सुकृतैर्लभ्यं यत् स्वतः परिपच्यते । पक्वस्य स्वयमाम्रस्य स्वादः कोऽप्यतिरिच्यते सङ्गतिर्यादृशी तादृक् ख्यातिरायाति वस्तुनः । रजनी ज्योत्स्नया ज्यौत्स्नी तमसा च तमस्विनी क्लिश्यन्ते केवलं स्थूलाः सुधीः सुफलमश्नुते । ममन्थ मन्दरः सिन्धुं रत्नान्यापुर्दिवौकसः आत्मीयमेव माहात्म्यं कुलं क्वापि न कल्पते । उदन्वदन्वयश्चन्द्रः कालकूटः किमन्वयः ૧૧૦ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 11 38 11 ॥ २५ ॥ ॥ २६ ॥ ॥ २७ ॥ ॥ २८ ॥ ।। २९ ।। ॥ ३० ॥ ॥ ३१ ॥ ॥ ३२ ॥ ॥ ३३ ॥ 11 38 11 ।। ३५ ।।
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy