SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कर्णाटीकर्णकर्णोत्पलदलदलनाः स्पष्टलाटीललाटव्यालोलाराललीलालकचयचलना वान्त्यवाचीनवाताः नीरन्ध्रान्ध्रपुरन्ध्रिपक्ष्मललना: सानङ्गबङ्गाङ्गनातुङ्गाभोगनितम्बबिम्बघटितश्लक्ष्णाम्बराकर्षिणः । वान्ति क्लान्तिमवन्तिकुन्तलवरस्त्रीणां हरन्तो रतौ, मन्दान्दोलितसान्द्रचन्दनवनाः स्वैरं वसन्तानिलाः सम्भोगान्तनितान्ततान्तसुदृशां विस्रस्तवस्त्रस्फुटश्रोणिस्पर्शरसालसा इव मुखैः पीता इवोच्वासिभिः । नाभीकन्दरमूर्छिता इव शनैर्वान्ति प्रभावानिलास्तुङ्गाभोगघनस्तनस्थलवलद्व्यावृत्तवेगा इव उद्यत् केलिकलाहित भ्रमरकादभ्र भ्रमावद्वपुलेखास्तोत्पुलकक्रमत्क्रमरणन्मञ्जीरहूतस्मरम् । साक्षाद् भूतरसं प्रकर्षपदवीरूढानुरागं मिथस्तन्वङ्गयाः पुरुषायितं प्रविकृताशेषक्रियं पातु वः वाचः काश्चिदधीत्य पूर्वसुधियां तत्काव्यदीक्षागुरुं, वीक्ष्य श्रीभरतं च संज्ञरुचिरं श्रीकामतन्त्रं च तत् । साहित्याम्बुधिबिन्दुबिन्दुरपि सत्यद्ये [?] विधित्सुर्मनागभ्यासं जिनवल्लभोऽदृभदिमाः शृङ्गारसारा गिरः भेदो विद्यत एव दाहकतया नाऽङ्गारशृङ्गारयोरित्युक्तं न यदस्मदर्व्यचरणैः सार्वैस्तदेवाधुना । दाक्षिण्यात् किल नीरसेन रचितं किञ्चिन्मयाऽपीति यद्, बालस्येव सहन्तु मे सुकवयो वाचालताचापलम् १०७ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ११६ ॥ ॥ ११७ ॥ ॥ ११८ ॥ ॥ ११९ ॥ ॥ १२० ॥ ॥ १२१ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy