________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः योऽन्यदेवमुक्तानां पूर्ण करण्डकं दर्शयित्वा हस्तलाघवेनान्यदेव स्फटिकानां पूर्ण करण्डकं समर्पयति यश्च सारभाण्डं कस्तूरिकादिकं कृत्रिमं कृत्वा विक्रयमाधि वा नयति तस्य दण्डकल्पना वक्ष्यमाणा वेदितव्या । कृत्रिमकस्तूरिकादेमूल्यभूते पणे भिन्ने न्यूने । न्यूनपणमूल्य इति यावत् । तस्मिन् कृत्रिमे विक्रीते पञ्चाशत्पणो दण्डः । पणमूल्ये पुनःशतम् । द्विपणमूल्ये द्विशतो दण्ड इत्येवं मूल्यवृद्धौ दण्डवृद्धिरुन्नेया ॥ २४७ ॥ २४८ ॥ वणिजः प्रत्याह
संभूय कुर्वतामधं सबाधं कारुशिल्पिनाम् ।
अर्घस्य हासं वृद्धि वा जानतो दम उत्तमः ॥ २४९ ॥ राजनिरूपितार्घस्य हासं वृद्धिं वा जानन्तोऽपि वणिजः संभूय मिलित्वा कारूणां रजकादीनां शिल्पिनां चित्रकारादीनां सबाधं पीडाकरमर्घान्तरं लाभलोभात्कुर्वन्तः पणसहस्रं दण्डनीयाः ॥ २४९ ॥
संभूय वणिजां पण्यमन'णोपरुन्धताम् ।
विक्रीणतां वा विहितो दण्ड उत्तमसाहसः ॥ २५० ॥ किंच । ये पुनर्वणिजो मिलित्वा देशान्तरादागतं पण्यमनर्धेण हीनमूल्येन प्रार्थयमाना उपरुन्धन्ति महाभ्रुण वा विक्रीणते तेषामुत्तमसाहसो दण्डो विहितो मन्वादिभिः ॥ २५० ॥ केन पुनरर्पण पणितव्यमित्यत आह
राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः।
क्रयो वा निःस्रवस्तस्माद्वणिजां लाभकृत्स्मृतः ॥ २५१ ॥ राजनि संनिहिते सति यस्तेनार्घः स्थाप्यते निरूप्यते तेनार्पण प्रतिदिनं क्रयो विक्रयो वा कार्यः । निर्गतः सवो निःस्रवो विशेषस्तस्माद्राजनिरूपिता_द्यो निस्रवः स एव वणिजां लाभकारी न पुनः स्वच्छन्दपरिकल्पितात् । मनुना चार्घकरणे विशेषो दर्शितः (८१४०२)-'पञ्चराने पञ्चरात्रे पक्षे मासे तथा गते । कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः ॥' इति ॥ २५१ ॥
स्वदेशपण्ये तु शतं वणिग्गृह्णीत पञ्चकम् ।
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥ २५२ ॥ किंच स्वदेशप्राप्तं पण्यं गृहीत्वा यो विक्रीणीते असौ पञ्चकं शतं पणशते पणपञ्चकं लाभं गृह्णीयात् । परदेशात्प्राप्ते पुनः पण्ये शतपणमूल्ये दशपणान्लाभं गृह्णीयात् । यस्य पणस्य ग्रहणदिवस एव विक्रयः संपद्यते । यः पुनः काला. न्तरे विक्रीणीते तस्य कालोत्कर्षवशाल्लाभोत्कर्षः कल्प्यः । एवं च यथार्धे निरू
१ भिन्ने भिन्नमूल्ये घ. २ जानतां घ. ३ अवशेषः घ. ४ वशाल्लाभः कल्प्य ग.
For Private And Personal Use Only