SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विक्रीयासंप्रदानप्र ० २१ ] मिताक्षरासहिता । २७१ पिते year पञ्चपण लाभो भवति तथैवार्घो राज्ञा स्वदेशपण्यविषये स्थाप नीयः ॥ २५२ ॥ पारदेश्य पण्येऽर्धनिरूपणप्रकारमाह पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् । अर्धोऽनुग्रहकृत्कार्यः क्रेतुर्विक्रेतुरेव च ॥ २५३ ॥ देशान्तरादागते पण्ये देशान्तरगमनप्रत्यागमनभाण्डग्रहणशुल्कादिस्थानेषु यावानुपयुक्तोऽर्थस्तावन्तमर्थ परिगणय्य पण्यमूल्येन सह मेलयित्वा यथा पणशते दशपणो लाभः संपद्यते तथा क्रेतृविक्रेत्रोरनुग्रहकार्यर्घो राज्ञा स्थापनीयः ॥ इति साहसप्रकरणम् । अथ विक्रीया संप्रदानप्रकरणम् २१ प्रासङ्गिकं परिसमाप्याधुना विक्रीयासंप्रदानं प्रक्रमते । तत्स्वरूपं च नारदेनाभिहितम् - विक्रीय पण्यं मूल्येन क्रेतुर्यच प्रदीयते । विक्रीयासंप्रदानं तद्विवादपदमुच्यते ॥' इति । तत्र विक्रेयद्रव्यस्य चराचरभेदेन द्वैविध्यमभिधाय पुनः पविधत्वं तेनैव प्रत्यपादि - 'लोकेऽस्मिन्द्विविधं पण्यं जङ्गमं स्थावरं तथा । पविधस्तस्य तु बुधैर्दानादानविधिः स्मृतः ॥ गणितं तुलितं मेयं क्रिया रूपतः श्रिया ॥' इति । गणितं क्रमुकफलादि । तुलितं कनककस्तूरीकुकुमादि । मेयं शाल्यादि । क्रियया वाहदोहा दिरूपयोपलक्षितमश्वमहिष्यादि । रूपतः पण्याङ्गनादि । श्रिया दीहया मरकतपद्मरागादीति ॥ एतत् कारकमपि पण्यं विक्रीयाऽसंप्रयच्छतो दण्डमाहगृहीतमूल्यं यः पण्यं क्रेतुर्नैव प्रयच्छति । सोदयं तस्य दाप्यisit दिग्लाभं वा दिगागते ।। २५४ ॥ गृहीतं मूल्यं यस्य पणस्य विक्रेत्रा तद्गृहीतमूल्यं तद्यदि विक्रेता प्रार्थयमा नाय स्वदेशवाणिजे त्रे न समर्पयति तच्च पण्यं यदि क्रयकाले बहुमूल्यं सत्कालान्तरेऽल्पमूल्येनैव लभ्यते तदार्धह्रासकृतो य उदयो वृद्धिः पण्यस्य स्थावरजङ्गमात्मकस्य ते सहितं पण्यं विक्रेता क्रेत्रे दापनीयः । यदा मूल्यह्रासकृतः पण्ययोदयो नास्ति किं तु क्रयकाले यावदेव यतो मूल्यस्येयत्पण्यमिति प्रतिपन्नं तावदेव तदा तत्पण्यमादाय तस्मिन्देशे विक्रीणानस्य यो लाभस्तेनोदयेन सहितं द्विकं त्रिकमित्यादिप्रतिपादितवृद्धिरूपोदयेन वा सहितं तृवाञ्छावशाद्दापनीयः । यथाह नारदः - 'अर्धश्वेदेवहीयेत सोदयं पण्यमावहेत् । स्थानिनामेष नियमो दिग्लाभं दिग्विचारिणाम् ॥' इति । यदा त्वर्धमहत्त्वेन पण्यस्य न्यून भावस्तदा तस्मिन्पण्ये वस्त्रगृहादिके य उपभोगस्तदाच्छादनसुख १ गणिमं क्रमुकफलादि, तुलिमं कर्पूरादि . ग. घ. २ 'श्वेदत्र' ख. या० २६ For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy