SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३० याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः दण्डं दाप्यः न पणम् । स्वपणं चेति विशेषोपादानात् । यत्र त्वेकः शतं अन्यस्तु पञ्चशतं प्रतिजानीते तत्रापि पराजये स्वकृतमेव पणं दाप्यो । सपणश्चेद्विवादः स्यादिति वदता पणरहितोऽपि विवादो दर्शित इति ॥ १८ ॥ छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः। भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥१९॥ किंच । छलं प्रमादाभिहितं निरस्य परित्यज्य भूतेन वस्तुतत्वानुसारेण व्यवहारान्नयेदन्तं नृपः । यस्माद्भूतमपि वस्तुतत्त्वमपि अनुपन्यस्तमनभिहितं हीयते हानिमुपगच्छति व्यवहारतो व्यवहारेण साक्ष्यादिभिः । तस्माद्भूतानुसरणं कतेव्यम् । यथार्थिप्रत्यर्थिनौ सत्यमेव वदतस्तथा ससभ्येन सभापतिना यतितव्यं सामादिभिरुपायैः । तथासति साक्ष्यादिनरपेक्ष्येणैव निर्णयो भवति ॥ अथ स. थापि भूतानुसरणं न शक्यते कर्तुं तथासति साक्ष्यादिभिर्निर्णयः कार्य इत्यनुकल्पः । यथोक्तम्-'भूतच्छलानुसारित्वाद्विगतिः समुदाहृतः । भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥' इति । तत्र भूतानुसारी व्यवहारो मुख्यः छलानुसारी त्वनुकल्पः। साक्षिलेख्यादिभिर्व्यवहारनिर्णये कदाचिद्वस्त्वनुसरणं भवति कदाचिन भवति । साक्ष्यादीनां व्यभिचारस्यापि संभवात् ॥ १९ ॥ . भूतमप्यनुपन्यस्तं हीयते व्यवहारत इत्यत्रोदाहरणमाह• निहते लिखितं नैकमेकदेशे विभावितः। - दाप्यः सर्व नृपेणार्थ न ग्राह्यस्त्वनिवेदितः॥२०॥ . नैकमने सुवर्णरजतवस्त्रादि लिखितमभियुक्तमर्थिना प्रत्यर्थी यदि सर्व मेव निहुतेऽपजानीते तदार्थिनैकदेशे हिरण्ये साक्ष्यादिभिः प्रत्यर्थी भावितो. गीकारितः सर्वं रजताद्यर्थं पूर्वलिखितं दाप्योऽर्थिने नृपेण । न ग्राह्यस्त्वनिवेदितः पूर्व भाषाकाले अनिवेदितः पश्चादर्थिना पूर्व मया विस्मृत इति निवेद्यमानो न ग्राह्यो न दापयितव्यो नृपेण । एतच्च न केवलं वाचनिकम् । एकदेशे प्रत्यर्थिनो मिथ्यावादित्वनिश्चयादेकदेशान्तरेऽपि मिथ्यावादित्वसंभवात् । अर्थिनश्चैकदेशे सत्यवादित्वनिश्चयादेकदेशान्तरेऽपि सत्यवादित्वसंभवात् । एवं तर्कापरनामसंभावनाप्रत्ययानुगृहीतादस्मादेव योगीश्वरवचनात्सर्वं दापनीयं नृपेणेति निर्णयः । एवंच तर्कवाक्यानुसारेण निर्णये क्रियमाणे वस्तुनोऽन्यथात्वेऽपि व्यवहारदार्शनां न दोषः । तथाच गौतमः-न्यायाधिगमे तर्कोऽभ्युपायस्ते १ सपणं ख. २ तस्मात् ख. ३ अनभिहितं अर्थिप्रत्यर्थ्यन्तरेण. ४ व्यवहारतः हीयमानपापयोगाच्चेति करणतृतीयान्तात्तसिः ५ भूतछले अनुसरति तच्छीलस्तत्त्वात् द्विगतिढिप्रकारः. ६ तत्त्वार्थयुक्तं यत्प्रमादाभि. ख. ७ व्यभिचारस्य अयथार्थवादित्वस्यापि. ८ प्रतिज्ञाकालेऽर्थिनाऽभियोगत्वेनामिहितम्. ९ पूर्वोक्तार्थंकदेशहिरण्य विषये. १० किंतु युक्तिसिद्धमपीति भावः, ११ तर्कापरनामिका या संभावना सैव यः प्रत्ययो ज्ञानं तत्सहकृतात् 'निहते' इति योगीश्वरवचनादित्यर्थः. १२ अस्य तदनुगृहीतते च. १३ न्यायशाने तर्क उपायस्तेन तर्केण न्यायमभ्युह्य निश्चित्य. नाभ्युपेत्य ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy