________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असाधारणव्य०मा०प्र०२] मिताक्षरासहिता ।
१२९ • अथ यत्र द्वावपि युगपद्धर्माधिकारिणं प्राप्तौ भाषावादिनौ । तद्यथा । कश्चिप्रतिग्रहेण क्षेत्रं लब्ध्वा कंचित्कालमुपभुज्य कार्यवशात्सकुटुम्बो देशान्तरं गतः । भन्योऽपि तदेव क्षेत्रं प्रतिग्रहेण लब्ध्वा कंचित्कालमुपभुज्य देशान्तरं गतः। ततो द्वावपि युगपदागत्य मदीयमिदं क्षेत्रं मदीयमिदं क्षेत्रमिति परस्परं विवदमानौ धर्माधिकारिणं प्राप्तौ तत्र कस्य 'क्रियेत्याकाङ्क्षित आह
साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः।
पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥१७॥ उभयतः उभयोरपि वादिनोः साक्षिषु संभवत्सु साक्षिणः पूर्ववादिनः पूर्वस्मिन्काले मया प्रतिग्रहीतमुपभुक्तं चेति यो वदत्यसौ पूर्ववादी न पुनर्यः पूर्व निवेदयति तस्य साक्षिणः प्रष्टव्याः । यदा वन्य एवं वदति सत्यमनेन पूर्व प्रतिगृहीतमुपभुक्तं च किंतु राज्ञेदमेव क्षेत्रमस्मादेव क्रयेण लब्ध्वा मह्यं दत्तमिति, अनेन वा प्रतिग्रहेण लब्ध्वा मह्यं दत्तमिति तत्र पूर्वपक्षोऽसाध्यतयाऽधरीभूतस्तस्मिन्पूर्वपक्षेऽधरीभूते उत्तरकालं प्रतिगृहीतमुपभुक्तं चेति वादिनः साक्षिणः प्रष्टव्या भवन्ति ॥ इदमेव व्याख्यानं युक्ततरम् । मिथ्योत्तरे पूर्ववादिनः साक्षिणो भवन्ति ॥ प्राङ्न्यायकारणोक्तौ पूर्वपक्षेऽधरीभूते उत्तरवादिनः साक्षिणो भवन्तीति व्याख्यानमयुक्तम् । अस्यार्थस्य–'ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्' इत्यनेनैवोक्तत्वात्पुनरुक्तिप्रसङ्गात् । पूर्वव्याख्यानमेव स्पष्टीकृतं नारदेन-'मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि । प्राङ्न्यायविघिसिद्धौ तु जयपत्रं क्रिया भवेत् ॥' इत्युक्त्वा-'द्वयोर्विवदतोरथै द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिणः ॥' इति वदता । एतस्य च पूर्वव्यवहारविलक्षणत्वा देनोपन्यासः ॥ १७ ॥
सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् ।
दण्डं च स्वपणं चैव धनिने धनमेव च ॥ १८ ॥ . अपिच । यदि विवादो व्यवहारः सपणः पैणनं पणस्तेन सह वर्तत इति सपणः स्यात्तदा तत्र तस्मिन्सपणे व्यवहारे हीनं पराजितं पूर्वोक्तं दण्डं स्वकृतं पणं रौजे, अर्थिने च विवादास्पदीभूतं धनं दापयेद्राजा । यत्र पुनरेकः कोपावेशवशाद्यद्यहमत्र पराजितो भवामि तदा पणशतं दास्यामीति प्रतिजानीते, अन्यस्तु न किंचित्प्रतिजानीते तत्रापि व्यवहारः प्रवर्तते । तस्मिंश्च प्रवृत्ते पणप्रतिज्ञावादी यदि हीयते तदा स एव सपणं दण्डं दाप्यः । अन्यस्तु पराजितो
१ क्रिया साधनम्. २ साक्षिषु सत्सु ग. ३ उक्तपूर्ववादिभिन्नः ४ स्तस्मिन्पक्षे ग. ५ अर्थी साध्यवान्. ६ मिथ्या मिथ्योत्तरे. ७ पूर्वन्यायकरणनिश्चये तु. ८ पूर्वत्र काले गृहीतमुपभुक्तं चेतीत्यर्थः. ९ सर्वव्यवहार इति पाठस्तत्र प्रागुक्तसर्वेत्यर्थः. १० पणनं व्यवहरणं । स्वोक्तिसत्यतासूचनाय यथासंभवद्रव्यदानाङ्गीकरणमिति यावत्. ११ प्रकृतार्थसममिति निह्नवे भावित इत्यत्रोक्तम्. १२ प्राडिवाकादिरिति शेषः. १३ तत्र निमित्तसत्वादप्रवृत्तौ मानाभावाच्चेति भावः.
For Private And Personal Use Only