SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir असाधारणव्य०मा०प्र०२] मिताक्षरासहिता । १३१ नाभ्युह्य यथास्थानं गमयेत्' इत्युक्त्वा, 'तस्माद्वाजाचार्यावनिन्द्यौ' इत्युपसंहरति । नचैकदेशभावितोऽनुपादेयवचनः प्रत्यर्थीत्येतावदिह गम्यते । - 'एकदेशविभावितो नृपेण सर्वं दाप्यः' इति वचनात् ॥ यत्तु कात्यायनेनोक्तम्- 'अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी । साक्षिभिस्तावदेवासौ लभते साधितं धनम् ॥' इति तत्पुत्रादिदेय पित्राद्यणविषयम् । तत्र हि बहूनर्थानभियुक्तः पुत्रादिर्न जानामीति प्रतिवदन्निह्नववादी नैं भवतीत्येकदेशविभावितोऽपि न कचिदसत्यवादीति 'निहृते लिखितं नैकम्' इति शास्त्रं तत्र न प्रवर्तते । निवाभावादपेक्षित तर्काभावाच्च । - ' अनेकार्थाभियोगेऽपि' इति कात्यायनवचनं तु सामान्यविषयं, विशेषशास्त्रस्य विषयं निहवोत्तरं परिहृत्याऽज्ञानोत्तरे प्रवर्तते ॥ ननु ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । ऊने वाप्यधिके वार्थे प्रोक्ते साध्यं न सिद्ध्यति ॥ इतिवदता कात्यायनेनानेकार्थाभियोगे साक्षिभिरेकदेशे भावितेऽधिके वा भाविते साध्यं सर्वमेव न सिद्ध्यतीत्युक्तम् । तथासत्येकदेशे भाविते अभावितैकदेशसिद्धिः कुतस्त्या । उच्यते । लिखितसर्वार्थसाधनतयोपन्यस्तैः साक्षिभिरेकदेशाभिधाने ऽधिकाभिधाने वा कृत्स्नमेव साध्यं न सिद्ध्यतीति तस्यार्थः । तत्रापि निश्चितं न सिद्ध्यतीति वचनात्पूर्ववत्संशय एवेति प्रमाणान्तरस्याचसरोऽस्त्येव । छलं निरस्येति नियमात् । साहसादौ तु सकलसाध्यसाधनतयोद्दिष्टैः साक्षिभिरेकदेशेऽपि साधिते कृत्स्नसाध्यसिद्धिर्भवत्येव । तावतैव साहसादेः सिद्धत्वात्, कात्यायनवचनाच्च - 'संध्याशेऽपि गदिते साक्षिभिः सकलं भवेत् । स्त्रीसंगे साहसे चौर्ये यत्साध्यं परिकीर्तितम् ॥' इति ॥ २० ॥ I ननु 'निह्नुते लिखितं नैक' मितीयं स्मृतिस्तथा 'अनेकार्थाभियोगेपी' तीयमपि स्मृतिरेव तत्रानयोः स्मृत्योः परस्परविरोधे सतीतरेतरबाधनादप्रामाण्यं कस्मान्न भवति, विषयव्यवस्था किमित्याश्रीयत इत्यत आह स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः । यत्र स्मृत्योः परस्परतो विरोधस्तत्र विरोधपरिहाराय विषयव्यवस्थापनादावुत्सर्गापवादादिलक्षणो न्यायो बलवान्समर्थः । सत्र न्यायः कुतः प्रत्येतव्य १ एवं निश्चितेऽर्थे प्रसक्तविरोधं परिहरति यत्त्विति २ तत्पुत्राद्यण ख. ३ मीतिवदन् ग. ४ न भवतीति । ऋणस्यान्यकृत्वेनाज्ञानस्यापि तत्र संभवेनापलापाभावात् ५ 'निहृते' इत्यस्य. ६ निह्नवोत्तरं ज्ञात्वापलापो निह्नवस्तद्रूपमुत्तरं परिहृत्य परित्यज्य अज्ञानोउत्तरे ज्ञानाभावेनोत्तरे प्रवर्तते. ७ स्थिरेति । लिङ्गदर्शनमात्रेणादृढहेतुनापि स्त्रीसंग्रहणादिरूपसाध्यस्य सिद्धिर्भवतीति तादृशानामस्थिरत्वम्, ऋणादानादिरूपस्य साध्यस्य तु दृढसाधनेनैव सिद्धिस्तेषां स्थिरत्वम् तदपि नाकाशादिवदिति स्थिरप्रायत्वमित्यर्थः ८ स्थिरप्रायेष्वित्यस्य प्रत्युदाहरणमाह साहसादौ त्विति. ९ 'उपदिष्टैः' इति पाठः १० साध्येति स्त्रीसंग्रहादिके विवादपदत्रये भाषावादिना यदेकार्थरूपं साध्यत्वेन कथितं तत्रानेकसाध्यसाधनतयाभिहितैः साक्षिभिः साध्यार्थजातस्यैकदेशेपि साधिते सकलं भवेत्सिध्येदित्यर्थः. ११ परस्परविरोध ग. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy