SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणसामान्यसाधर्म्यम् 10 पर्वका इति । तन्न, पर्युदासप्रतिषेधस्य विवक्षितत्वात् । तथाहि, पाकाजाताः पाकजास्तत्प्रतिषेधेन अन्यगुणपूर्वकत्वं लभ्यत इति नित्यानां व्यवच्छेदः । नन्वेवमपि व्यर्थमपाकजग्रहणम्, एते कारणगुणपूर्वका एवेत्यवधारणासम्भवात् । तथाहि, द्रवत्ववेगावकारणगुणपूर्वकावपीति । न । 5 स्पष्टार्थत्वादेत एव का रणगुणपूर्वका, न त्वेते कारणगुणपूर्वका एवेत्यवधारणम् । अबुध्यमानस्य पाकजैर्दोषाशङ्का स्यादिति स्पष्टार्थमपाकजग्रहणम् । अत्र चैकत्वैकपृथक्त्वग्रहणं द्वित्वद्विपृथक्त्वादिव्यवच्छेदार्थम् । ते ह्यकारणगुणपूर्वका इति । अकारणगुणपूर्वकगुणकथनम् बुद्धिसुखदुःखेच्छाद्वषप्रयत्नधर्माधर्मभावनाशब्दा अकारणगणपूर्वकाः । बुद्ध्यादयः शब्दान्तास्त्वकारणगुणपूर्वका एव । समवायिगुणपूर्वकाः कार्यगुणा न भवन्तीति । न त्वेत एव संयोगविभागपरत्वापरत्वद्वित्वद्विपृथक्त्वादीनामप्यकारणगुणपूर्वकत्वात् । ___अथाकारणगुणपूर्वकत्वाविशेषेऽप्यस्मिन् वाक्ये संयोगादीनामवचने किं 15 प्रयोजनमिति चिन्त्यम् । अथापाकजरूपादिवेगान्तानामेव कारणगुणपूर्वकत्वामिधानात् शेषाणामकारणगुणपूर्वकत्वं विज्ञायते । एवं तहि बुद्ध्या दयोऽपि नाभिधेयाः, शेषाणामकारणगुणपूर्वकत्वमिति वाभिधेयं सकलभेदसङ्ग्राहकं वाक्यम् । अलं बुद्ध्यादिविशेषाभिधानेनेति । नैतदेवम्। विशेषवचनं स्पष्टार्थम् । अनेकधा शास्त्राभिहितमिति 20 अन्तेवासिनामृज्वर्थपरिज्ञानमेव स्यादित्यूहशक्तेः संवर्धनार्थं संयोगादीनां स्वशब्देनावचनम् । अन्ये त्वेकवृत्तीनामेव विशेषगुणानामत्राभिधानं विवक्षितमिति मन्यन्ते । तत्तु न बुद्ध्यामहे, दूषणस्याप्रतिसमाधानात् । संयोगजगुणोद्देशः बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दतूलपरिमाणोत्तरसंयोग 25 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy