SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवत्यां ग्राह्याः । बाह्यग्रहणमन्तःकरणव्यवच्छेदार्थमनुवर्तनीयम् । अथ स्नेहस्य कथं द्वीन्द्रियग्राह्यत्वम् ? त्वग्व्यापारे सति स्निग्धप्रत्ययदर्शनात् । यथा हि चक्षुर्व्यापारेण स्निग्धाः केशा इति प्रतिभासस्तथा स्नानोत्तरकालमपि त्वग्व्यापारेण स्निग्धप्रत्ययो दृष्ट इत्यन्वयव्यतिरेकाभ्यां 5 द्वीन्द्रियग्राह्यत्वं निश्चीयते । अथ किमयमाप्यः पार्थिवो वेति विचारयिष्यामः स्नेहपरीक्षायाम् । अन्तःकरणग्राह्यगुणोद्देशः द्वषप्रयत्नास्त्वन्तःकरणग्राह्याः। 10 अतीन्द्रियगुणोद्देशः गुरुत्वधर्माधर्मभावना अतीन्द्रियाः । बुद्ध्यादयः प्रयत्नान्तास्त्वन्तः करणेनैव गृह्यन्त इति तद्ग्राह्याः । गुरुत्वधर्माधर्मभावना हि अतीन्द्रिया एव । इन्द्रियाण्यतोत्य वर्तन्ते, तद्ग्राह्या न भवन्तीति । यथा च गुरुत्वमप्रत्यक्षं तथा वक्ष्यामस्तत् परीक्षायाम् । 15 गुणेषु कारणगुणपूर्वकाणामुद्देशः अपाकजरूपरसगन्धस्पर्शपरिमाणकत्वैकपृथक्त्वगुरुत्वद्वत्वस्नेहवेगाः कारणगुणपूर्वकाः। अपाकजरूपादिवेगान्ताः कारणगुणपूर्वका इति । अपाजकग्रहणं पार्थिवपरमाणुरूपव्यवच्छेदार्थम् । ननु तेऽपि कारणगुणपूर्वा भवन्त्येव । तथाहि, कारणं परमाणुस्तद्गुणः पार्थिवपरमाण्वग्निसंयोगस्तत्पूर्वा रूपादय इति कथं न कारणगुणपूर्वकाः ? तन्न। अभिप्रायापरिज्ञानात् । तथा चायमभिप्रायः, समवायिकारणेष्वेव गुणाः कारणगुणास्ते पूर्वं कारणं येषां कार्यगुणानां तेऽत्र कारणगुणपूर्वका विवक्षिताः । न चैवं पाकजा इति व्यवच्छिद्यन्ते । 25 अथ सलिलादिपरमाणुरूपादयः पाकजत्वाभावेऽपि न कारणगुण 20 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy