SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवत्यां नैमित्तिकद्रवत्वपरत्वापरत्वपाकजाः संयोगजाः । तथा बुद्धयादयः पाकजान्ताः संयोगजा इत्यत्र बुद्धयादयो भावनान्ता: पुरुषान्तःकरणसंयोगादुत्पद्यन्ते । शब्दश्च मेर्याकाशसंयोगात् । तूलपरिमाणञ्च प्रचयात् । उत्तरसंयोगः सूत्रपाठापेक्षया, संयोगजसंयोगः नैमित्तिकद्रवत्वमग्निसंयोगात् । परत्वापरत्वे तु दिक्कालपिण्डसंयोगात् । पाकजा इति पार्थिवपरमाणुरूपादयस्तेऽप्यग्निसंयोगजाः । इत्येत एव संयोगजाः, न त्वेते संयोगजा एव । तथा हि शब्दो विभागजः शब्दजोऽप्यस्तीति । कर्मजगुणोद्देशः संयोगविभागवेगाः कर्मजाः । *संयोगविभागवेगा:* कर्मभ्यो जाताः कर्मजा इत्येत एव, न त्वेते कर्मजा एव । तथाहि, संयोगः संयोगादुत्पद्यते विभागश्च विभागाद् वेगो वेगादपीति । विभागजगुणकथनम् शब्दोत्तरविभागौ विभागजौ । ___ शब्दोत्तरविभागौ विभागाजातौ विभागजाविति । एतावेव विभागजौ, 15 न त्वेतौ विभागजावेव । तथाहि, शब्दः संयोगजः शब्दजोऽप्यस्तीति । उत्तरविभागश्च, सूत्रपाठापेक्षया विभागजविभाग एव परिगृह्यते । बुद्ध्यपेक्षाणां, समानासमानजात्यारम्भकानाञ्चोद्देशः परत्वापरत्वद्वित्वद्विपथक्त्वादयो बुद्ध्यपेक्षाः । रूपरसगन्धानुष्णस्पर्शशब्दपरिमाणकत्वैकपृथक्त्वस्नेहा: समानजात्यारम्भकाः । सुखदुःखेच्छाद्वषप्रयत्नाश्च असमानजात्यारम्भकाः। संयोगविभागसंख्यागुरुत्वद्वत्वोष्णस्पर्शज्ञानधर्माधर्मसंस्काराः समानासमानजात्यारम्भकाः। इदानीं के बुद्ध्यपेक्षाः, के च समानजात्यारम्भका इत्युपदर्शयति 25 *परत्वापरत्वद्वित्वद्विपृथक्त्वादयः* बुद्धिमपेक्षन्ते स्वोत्पत्ताविति बुद्ध्यपेक्षा इति । आदिपदेन त्रित्वादिका परार्धान्ता संख्या तदवच्छिन्नञ्च पृथक्त्वं For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy