________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम उद्देशकः
१५१२ (A)
तदा आसतां पूर्वप्राप्ताः किन्तु पश्चाद् गता अपि ये तेभ्यः पूर्वमनुज्ञापयन्ति क्षेत्रं तेषां तत् क्षेत्रं व्याख्यातं कथितम् ॥ ३८८५॥
अत्रैवापवादमाहगेलनवाउलाणं तु, खेत्तमन्नस्स नो भवे। निसिद्धो खमतो चेव, तेण तस्स न लब्भते ॥ ३८८६ ॥
ग्लानत्वेन व्याकुलानां पूर्वं समकं प्राप्तानामपि समकं पूर्वं वा नानुज्ञापनमभूत् तदा कारण-स्थितत्वात् तेषामाभवति तत् क्षेत्रम्, नान्यस्य पूर्व प्राप्तपूर्वानुज्ञापकस्य पश्चात्प्राप्तपूर्वानुज्ञापकस्य वा। तथा क्षपको निष्कारणे क्षेत्रप्रत्युपेक्षणाय न प्रवर्तयितव्यः, निषेधात्, तेन कारणेन तस्य क्षपकस्य यत् क्षेत्रम्, तेन क्षपकेण यदनुज्ञापितं क्षेत्रमित्यर्थः, तत् तैर्न लभ्यते, किन्तु यैः पश्चादप्यागतैरनुज्ञापितं तेषां तत् क्षेत्रम्। अथ कारणे क्षेत्रप्रत्युपेक्षणाय क्षपक: प्रवर्त्तितस्तदा तेनानुज्ञापितं ते लभन्ते क्षेत्रम्। तथा क्षपकस्य पारणके व्याकुला इति नानुज्ञापयन्ति तदा न तेषां तत् क्षेत्रम्, किन्तु यैरनुज्ञापितं तेषामिति ॥ तदेवं गतः प्रथमो भङ्गः १॥ ३८८६॥
X.
गाथा ३८८६-३८९३
क्षेत्राभवन सामाचारी
|१५१२ (A)
For Private And Personal