SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशक: १३६८ (B) www.kobatirth.org चर्ममयः कोशः चर्मकोशः सोऽङ्गुष्ठस्य यदि वा अवरपार्ष्णिः पार्ष्णिका तस्याः परिरक्षणाय ध्रियते । अथवा नखरदनादेरौपग्रहिकोपकरणविशेषस्य चर्ममयः कोशश्चर्मकोशः, ये तु वधास्ते चर्मपरिच्छेदनकमित्युच्यन्ते, ते च छिन्नसन्धानार्थम्, अथवा द्विखण्डसन्धानहेतोः ध्रियन्ते । तदेवं विषमपदानि व्याख्यातानि ॥ ३४६१ ॥ सम्प्रति दण्डाद्युपकरणस्थापनचिन्तां चिकीर्षुराह - जइ उ ठवेति असुन्ने, न य बेइ दिज्जहेत्थ ओहाणं । लहुगो सुन्ने लहुगा, हियम्मि जं जत्थ पावति उ ॥ ३४६२ ॥ Acharya Shri Kailassagarsuri Gyanmandir यदि त्वशून्ये अविरहिते प्रदेशे दण्डाद्युपकरणं स्थापयति न च कस्यापि सम्मुखमेवं ब्रूते - अत्र दद्यादवधानमुपयोगमिति तदा तस्य प्रायश्चित्तं लघुको मासः । अथ शून्ये स्थापयति तदा चत्वारो लघुकाः । तथा शून्ये मुक्ते स्तेनैश्चापहृते यद् यत्र जघन्ये मध्यमे उत्कृष्टे वा उपकरणे प्रायश्चित्तमुक्तं तत् प्राप्नोति ॥ ३४६२ ॥ For Private and Personal Use Only गाथा | ३४५९-३४६६ वृद्धस्य उपकरणविशेषा: १३६८ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy