SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार-14 सूत्रम् अष्टम उद्देशकः १३४७ (A) ग्रहीतव्यम्। तत्राप्यलाभे तेनैव क्रमेण निवेशनादानेतव्यः, तत्राऽप्यसति वाटकात्, तत्राप्यलाभे साहीतः, तत्राप्यसति दूरादपि ग्राममध्यादानेतव्यः, ग्राममध्येऽप्यसति क्षेत्रान्तस्तत्क्षेत्रमध्यभागात् अन्यग्रामादानेतव्यः, तत्राप्यसति क्षेत्राद्वहिष्ठोऽप्यानेयः । एवमविपर्यस्तमानयनं कर्त्तव्यं, यदि पुनः सति लाभे विपर्यस्तमानयति तदा प्रायश्चित्तं चत्वारो लघुकाः ॥ ३३८७॥ सम्प्रत्यानयने यतनामाहसुत्तं च अत्थं च दुवे वि काउं, भिक्खं अडंतो उ दुए वि एसे । लाभे सइ एति दुवे वि घेत्तुं, लाभासती एग दुए व हावे ॥ ३३८८ ॥ सूत्रं च अर्थं च द्वावपि कृत्वा भिक्षामटन् द्वावप्येषयेत् गवेषयेत्, तद्यथा- भिक्षां संस्तारकं च। तत्र लाभे सति समर्थो द्वावपि गृहीत्वा [ एति ]प्रत्यागच्छति, लाभासति भिक्षां गतस्य संस्तारकलाभाऽभावे एकं सूत्रमर्थो वा यदि वा द्वावपि हापयति संस्तारकगवेषणेन ॥ ३३८८॥ दुल्लभे सेजसंथारे, उउबद्धम्मि कारणे । मग्गणम्मि विही एसो, भणितो खेत्तकालतो ॥ ३३८९॥ गाथा ३३८५-३३९१ कारणे ऋतुबद्धे फलकग्रहणविधिः १३४७ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy