SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् अष्टम उद्देशकः | प्रायश्चित्तं लघुको मासः, झुषिरं गृह्णतश्चत्वारो लघुकाः, अपरिशाटिमपि गृह्णतश्चत्वारो लघुकाः, न केवलं प्रायश्चित्तं किं त्वाज्ञादयश्च दोषाः । तथा यद्यग्निना स ध्याम्यते तदापि प्रायश्चित्तं चत्वारो लघुकाः, व्याक्षेपेण वा स्तेनैरपहृते चतुर्लघुकम्। अपरिशाटौ ध्यामिते हृते वा मासलघु । ततोऽन्यं संस्तारकं मृगयमाणानां सूत्रार्थपरिमन्थः । तथा तस्मिन् संस्तारके ये प्राणजातय | आगन्तुकास्तदुद्भवा वा तान् सङ्गट्टयति परितापयति अपद्रावयति च, ततस्तन्निष्पन्नं तस्य । प्रायश्चित्तमित्येष गाथार्थः ॥ ३३६९ ॥ साम्प्रतमेनामेव भाष्यकृत् विवृणोतिपरिसाडि अपरिसाडी, दुविहो संथारतो समासेण । गाथा परिसाडी य झुसिरेयर, एत्तो वोच्छं अपरिसाडिं ॥ ३३७०॥ ३३६८-३३७२ संस्तारकद्विविधः समासेन सङ्क्षपेण संस्तारकः । तद्यथा परिशाटिरपरिशाटिश्च, तत्र स्वरूपादिः परिशाटिर्द्विधा झुषिरः इतरश्च, इतरो नाम अझुषिरः । अत ऊर्ध्वमपरिशाटिं वक्ष्ये ॥ ३३७०॥ | ४१३४१ (A) प्रतिज्ञातमेव करोति 10 For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy