________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
अष्टम उद्देशकः
१४१७ (A)
भायण देसा एंतो, पाए घेत्तूण एति दाहं ति१ । दारं १। दाऊणऽवरो गच्छति, भायण देसं तहिं घेच्छं ॥ ३६११ ॥
भाजनदेशात् यस्मिन् देशे भाजनानि सम्भवन्ति तस्मात् देशाद् आनन्दपुराद् वाऽऽगच्छन् | आगन्तुकामः पूर्वकृतानि भाजनानि गृहीत्वा समागच्छति साधुभ्यो दास्यामीति बुद्ध्या, | गतमागमद्वारम्। अधुना गमद्वारमाह-अपरः साधुरानन्दपुरादिकात् देशात् भाजनदेशं गन्तुकामस्तत्र- अन्यान्यपि पात्राणि ग्रहीष्यामि सुलभत्वात् इति पुराणानि पात्राणि दत्त्वा गच्छति, गतं गमद्वारम् ॥ ३६११॥ इदानीं कालगतद्वारमाह
गाथा
३६०८-३६१३ कालगयम्मि सहाये, वनस्स होइ अतिरेगं।
पात्रग्रहणापत्ते लंबऽतिरेगे, दुल्लहपाए विमे पंच ॥ ३६१२॥
दिस्वरूपम् कस्यापि साधोः सहायः कालगतः प्रतिभग्नो वा, ततस्तस्य पात्रमतिरिक्तं लम्बते ||१४१७ (A) इत्यन्यस्य द्वितीयस्य साधोरतिरिक्तं पुराणं पात्रं च भवति तदन्यस्मै ददाति । गतं
For Private and Personal Use Only