SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री एवमेव पूर्वोक्तेनैव प्रकारेण अछिन्नेषु पात्रेषु ग्रहीतव्येषु गृहीते ग्रहणे च विधिरनुसरणीयो मुक्त्वा अतिरेकम् । किमुक्तं भवति ? अतिरिक्तः पतद्ग्रहस्तत्र न सम्भवति परिमाणाऽकरणाद् इति तत्सम्भवविधिर्न वक्तव्यः । सम्प्रति पुराणग्रहणमेभिर्वक्ष्यमाणैः पदैर्वक्ष्यामि ॥ ३६०९ ॥ मुक्त्वा व्यवहारसूत्रम् अष्टम उद्देशकः तान्येव पदान्याह १४१६ (B) गाथा आगमगमरकालगते३, दुल्लभतम कारणेहिं एएहिं । दुविहा एगमणेगा, अणेगनिद्दिट्ठऽनिद्दिट्ठा ॥ ३६१० ॥ आगमद्वारं गमद्वारं कालगतद्वारं दुर्लभद्वारमेतैः कारणैस्तत्र गच्छे पुराणग्रहणसम्भवः । तत्र ये पात्राणि ददति ते द्विविधाः , तद्यथा-एको वा अनेके वा, येषामपि ददाति तेऽपि द्विविधा-एको वाऽनेके वा, दानं च निर्देशपूर्वकं, यथा- अमुकस्य दास्यामि। तत्र यदा एकस्य ददाति तदा तन्निर्दिशति अमुकस्य दास्यामि, ये त्वनेके [ ते निर्दिष्टा अनिर्दिष्टा वा, अपरिमितसङ्ख्याकतया निर्देशाऽकरणात्। एष द्वारगाथासक्षेपार्थः ॥ ३६१० ॥ साम्प्रतमेनामेव व्याचिख्यासुः प्रथमतः आगमद्वारमाह X ३६०८-३६१३ पात्रग्रहणादिस्वरूपम् १४१६ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy