SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् अष्टम उद्देशकः १३९१ (B) धूल्या उत्खननं भवति तेन च उपधेर्विनाशो मलिनत्वभावात्। ते एवानन्तरोदिता दोषाः सविशेषा शङ्कादयो विविञ्चत्यपि उच्चारादि त्यजत्यपि । तथाहि-उच्चारादि पथि कुर्वतो लोकस्य शङ्कोपजायते किमनेन गुदं निर्लेपितमुत न? इति आदिशब्दात् किमेष स्तेनकः किंवा श्रमणोऽभिचारको हेरिको वा इत्यादिपरिग्रहः । एष द्वारगाथासक्षेपार्थः ॥ ३५३२ ॥ साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतो मिथ्यात्वद्वारं विवृणोतिपंथे न ठाइयव्वं, बहवे दोसा तहिं पसज्जंति । अब्भुट्ठिता त्ति गुरुगा, जं वा आवजई जत्तो ॥ ३५३३ ॥ पथि साधुना विश्रमणनिमित्तं न स्थातव्यं, यतस्तत्र बहवो दोषाः प्रसजन्ति। तानेवाहसाधुना धिग्जातीयानां पथि प्रदत्ते अभ्युत्थिता एते अभ्युत्थानमेतेषां कृतमिति लोकप्रतिपत्तौ | तस्य प्रायश्चित्तं चत्वारो गुरुकाः, यच्च स्वयं दृष्ट्वा यतो वा श्रुत्वा मिथ्यात्वमापद्यते || विश्रामणादौ अभिनवधर्मा मिथ्यादृष्टिा गाढतरं मिथ्यात्वमधिगच्छति तनिष्पन्नं च तस्य प्रायश्चित्तं, धिकजातीयानां चाऽऽत्मबहुमानसम्भवः ॥ ३५३३ ॥ १३९१ (B) गाथा ३५२८-३५३३ मार्गे दोषाः १.त्वमाग० सां॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy