________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
षष्ठ उद्देशकः १०६४ (A)
..
.
तहियं गिलाणगस्स, अहागडाई हवंति सव्वाइं । अब्भंग सिरावेहो, अवाणच्छेयावणेजाइं ॥२४८५ ॥
यदि स्वजनानां सम्बन्धी कोऽपि ग्लानो वर्त्तते तस्य चिकित्सां वैद्यः करोति, यदि वा वैद्यः साधुस्वजनानां स्वजनोऽन्यस्य कस्यापि ग्लानस्य क्रियां करोति ततस्तत्र ग्लानो ज्ञातविधिं नीयते, यतस्तत्र ग्लानस्य अभ्यङ्गशिरावेधो अपानमपानकर्म छेदेनापनीयानि छेदापनीयानि एतानि सर्वाणि यथाकृतानि पुरःकर्म-पश्चात्कर्मरहितानि भवन्ति ॥२४८५ ॥
एतदेव स्पष्टं भावयतिजइ नीयाण गिलाणो, नीयो वेज्जो कुणइ अन्नस्स । तत्थ हु न पच्छकम्मं, जायइ अब्भंगमादीसु ॥२४८६॥
यदि निजकानां सम्बन्धी ग्लानः वैद्यो वा निजकः अन्यस्य कस्यापि ग्लानस्य कुरुते चिकित्सा, तत्र हुः निश्चितं न पश्चात्कर्माभ्यङ्गादिषु जायते ॥२४८६ ॥
कथं न जायते इत्याह
.
.
.
गाथा २४८५-२४९३ ज्ञातविधी ग्लानचिकित्सा) गमनम्
१०६४ (A)
For Private And Personal Use Only