SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३०४ (B) अष्टप्रभृतयस्तेषां द्रष्टव्या, ये तु सप्तानामधस्तात् स्तोकास्तेषां यो विधिस्तं वक्ष्ये ॥ ३२६०॥ प्रतिज्ञातमेव करोतिपंचण्ह दोन्नि हारा, भयणआ आरेण पालहारेसु । ते चेव य कुसपडिमा, नयंति हारावहारो वा ॥ ३२६१॥ यदि सप्तानामधस्तात् षट् भवन्ति तदा त्रयो विश्राम्य द्वौ द्वौ भूत्वा वहन्ति, एको | वसतिपालः, एकस्तृणानि मात्रकं च गृह्णाति। पञ्चानां विधिं साक्षादाह-पञ्चानां साधूनां सम्भवे द्वौ हरौ वहत इत्यर्थः। तृतीयः कुशाद्यानयति, चतुर्थो वसतिपालः पञ्चमः कालगतः। पञ्चानामारतो ये चतुःप्रभृतयस्तेषां वसतिपाले हरे च भजना वसतिरक्षणे वहने च विकल्पना। किमुक्तं भवति? यथासम्भवमशून्यां वसतिं कृत्वा शय्यातरस्य वा निवेद्य शून्यामपि कृत्वा | यथा शक्नुवन्ति तथा परिष्ठापयन्ति। तथा चाह-त एव हरा मृतवाहका: कुशप्रतिमां नयन्ति। इयमत्र भावना-शय्यातरस्य वसतिनिवेदने कृते त्रयो विश्रम्य विश्रम्य वहन्ति यस्तु विश्राम्यति स कुशादि नयतीति । अथवा एक एव यः समर्थः स हरो भवेत् स वहतीति भावः ।। ३२६१॥ गाथा ३२५९-३२६४ परिष्ठापनाविधिः ४१३०४ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy