________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् सप्तम
उद्देशकः १२१४ (A)
तदेवं निर्ग्रन्थीसूत्रं व्याख्यातम्, अधुना ‘कप्पति निग्गंथाणं वितिगिटुं दिसं उद्दिसित्तए वा धारित्तए वा' [सूत्र १०] इति निर्ग्रन्थसूत्रव्याख्यानार्थमाह
निग्गंथाण विगिटे, दोसा ते चेव मोत्तु कोसलयं । सुत्तनिवाओऽभिगए, संविग्गे से इत्तरिए ॥ २९५३ ॥
निर्ग्रन्थानामपि विकृष्टे उद्दिश्यमाने य एव निर्ग्रन्थीनां दोषा मिथ्यात्वादय उक्तास्त एव | कोशलकमेकं दोषं मुक्त्वा शेषाः सर्वे निरवशेषा द्रष्टव्याः । यद्येवं तर्हि सूत्रमनर्थकम्, अविषयत्वाद्, अत आह-सूत्रनिपातोऽभिगते संविग्ने च शेषे इत्वरिकः । इयमत्र भावना-अभिगतो ज्ञाततत्त्वः श्राद्धः पुराणो वा संविग्नः स्वयं, योऽपि तस्य धर्मदेशक आचार्यः सोऽपि संविग्नस्तस्मिन् सूत्रनिपातो, यस्तु शेषः स्वयं न सम्यक्ज्ञाततत्त्वः,तस्य पथि व्रजतो मिथ्यात्वादयो दोषाः। तस्य दीक्षामाधाय इत्वरिको दिग्बन्धः क्रियते, न पुनः प्रेष्यते ॥ २९५३ ॥
गाथा २९५३-२९५९ | निर्ग्रन्थानां
| सामाचारी
१२१४ (A)
एतदेव व्याचिख्यासुराह
For Private And Personal Use Only