________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
११९३ (B)
www.kobatirth.org
कारणेऽनुपायतोऽयतनया गृहीतस्तमुपधिं द्वावपि परित्यजतः । ततः परस्परमालोचनायां दत्तायां येन दोषेणाशुद्ध उपधिरात्तस्तत्प्रत्ययमयतनाप्रत्ययं च प्रायश्चित्तं प्रतिपद्यते ॥ २८९१ ॥
एवं तु विदेसत्थे, अयमन्नो खलु भवे सदेसत्थे । अभिणीचारीगादी, विणिग्गए गुरुसगासातो ॥ २८९२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवमुक्तेन प्रकारेण खलु विदेशस्थे यतना भणिता । अयमन्यः खलु यतनाप्रकारः स्वदेशस्थे, तमेवाह–अभिनिचारिका प्रागुक्तस्वरूपा तया, आदिशब्दादुपधिकार्येण स्पर्द्धकपतीनां वा साराकरणेन गुरूपदेशतो गुरुसकाशाद् विनिर्गते विनिर्गमेनैव प्रत्यागतैराचार्यपादमूले कस्यां वेलायामागन्तव्यम् ॥ २८९२ ॥
एनामेव निर्युक्तिगाथां भाष्यकारो विवृणोति -
अभिनिचारिनिग्गते, अहवा अन्त्रेण वा वि कज्जेण । विसणं समणुण्णेसुं, काले को यावि कालो उ ?॥ २८९३॥
For Private And Personal Use Only
܀܀܀܀
गाथा
२८८७-२८९३
आर्यसुहस्तितः परीक्ष्य आलोच्य सहभोजनादिः
| ११९३ (B)