SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५३१ (B) संयतभाषाश्च श्रुत्वा ताभिरुपहासं कुर्वन्ति ततः कलहभावतोऽधिकरणदोषः। अथवा शय्यातरः संयतानां भद्रक इति तान् बटुकान्निष्काशयेत्ततः 'संयतप्रयोगवशतोऽनेन दुष्टेन वयं निष्कासिताः' इति शय्यातरस्य संयतानां च विषये स्तेनप्रयोगतोऽग्निप्रक्षेपादिना वा यमुपद्रवं कुर्वन्ति तन्निष्पन्नं प्रायश्चित्तं तौ श्रमणौ प्राप्तत:२। चारणेत्ति एवं चारणेऽपि दोषा वक्तव्याः। नवरमधिकतराः, यतस्ते संयतान् प्रपञ्च्य याचित्वा वा यत्तद् गृह्णन्ति, ततस्तैः सह एकत्र सर्वथा न वस्तव्यम्, एते एव दोषा भटेऽपि, यतस्तेपि बटुका इव प्रद्विष्टाः सन्तः शय्यातरस्य संयतानां च विषये स्तेनप्रयोगतोऽग्निप्रक्षेपादिना वा प्रभूतमुपद्रवं कुर्वन्ति ।। मरणं तिरिक्ख-मणुयाणमिति शून्यां वसतिमभिसमीक्ष्य गवादिस्तिर्यङ् अनाथमनुष्यो वा प्रविश्य म्रियते, तं यदि गृहस्थैरसंयतैः परिष्ठापयन्ति ततः षड्जीवनिकायविराधना, यदि स्वयं त्यजन्ति ततः प्रवचनस्योड्डाहः। कोऽप्येवमाशङ्केत- एतैरेवायं मारितः, लोकेऽपि स्वयं तत्त्यजने महती गर्दा अशुचय एते इति। अथैतदोषभयान स्वयं त्यजन्ति नापि X गाथा ९९८ शून्यवसति करणे दोषाः ५३१ (B) १. 'ताभिः' संयतभाषाभिः, तदनुवादेनेति पु. प्रे.।। For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy