SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५३१ (A) तत्कृताऽप्रीतिवशतस्तेषामपि वसतिं न ददाति, ततो यत्ते श्वापदस्तेनादिभिः प्राप्नुवन्ति तन्निष्पन्नमपि तयोः प्रायश्चित्तम्। एते तावदोषा भिक्षामटित्वा तत्क्षणमागतयोरुक्ताः। यदि पुनर्बहिर्भुक्तवा रात्रावागतौ वसतिं न लभेते तदा चतुर्लघु सविशेषतराश्च गर्हादयो दोषाः, विनाशः श्वापदादिभ्यः। अथवा सम्यग्दृष्टिभूतः सन् पश्चाद् 'अनापृच्छ्य तौ गतौ' |* इत्यप्रीतिकोत्पत्तिवशतो मिथ्यात्वं यायात१ । बड़यत्ति शन्यां वसतिं दृष्टवा बटुकैः शय्यातरो याचितः यथा- वयमत्र तिष्ठामः। 3 शय्यातरः प्राह- श्रमणौ तिष्ठतः । तैरुक्तम्- गतौ तौ श्रमणौ। शय्यातरो ब्रूते तिष्ठत, यदि वा गतौ श्रमणौ, ते स्थिताः। श्रमणावागतौ प्रवेष्टुं प्रवृत्तौ, बटुकैर्निरुद्धौ, ततोऽसङ्खडमभवत्, बटुका ब्रुवते- वसतिरियमस्माकं स्वामिना दत्ता। इतरावपि ब्रूतः अस्माकमपि | स्वामिना दत्ता। एवं कलहायमानौ साधू शय्यातरसमीपं गतौ। स वदति यूयमनापृच्छया शून्यां वसतिं कृत्वा गताः मया ज्ञातम्, यथा- यूयं गताः, येन शून्या कृता वसतिदृश्यते, ततो मया बटुकानां प्रदत्ता तस्मात्परस्परं साम्मत्येनैकत्र तिष्ठत, न पुनरहमात्मानमलीकं करोमि। तत्र यदि परस्परं साम्मत्येन तिष्ठन्ति ततः पठतां प्रतिलेखनां च कुर्वतां गाथा ९९८ शून्यवसति करणे दोषाः ५३१ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy