SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५२८ (B) अप्पसुयत्ति य काउं, वुग्गाहेउं हरंति खुड्डादी। तेणा सपक्ख इयरे, सलिंगि गिहि अन्नहा तिविहा ॥ ९९२ ॥ द्वारं ८।। स्तेना द्विविधाः स्वपक्षाः परपक्षाश्च। तत्रः स्वपक्षाः द्विविधाः- गीतार्थाः पार्श्वस्थादयश्च । तत्र गीतार्था इदं चिन्तयन्ति- अमी अल्पश्रुताः, अल्पश्रुतत्वाच्चागीतार्था न चागीतार्थानां क्षेत्रमस्ति। तत एतत् चिन्तयित्वा तेषां सचित्तादि गीतार्था अपहरन्ति । पार्श्वस्थादयः पुनः क्षुल्लकादीन् व्युद्ग्राहयन्ति, यथा- दुष्करा चर्याऽमीषाम्, न च दुष्करचर्यायाः सम्प्रति देश-कालौ, तस्मादत्रागच्छतेति। एवं व्युद्ग्राह्य क्षुल्लकादीन्, आदिशब्दात्तरुणादिपरिग्रहः, अपहरन्ति। परपक्षाः मिथ्यादृष्टयस्तेऽपि क्षुल्लकादीन् व्युद्ग्राह्य अपहरन्ति। अथवा त्रिविधाः स्तेनाः, तद्यथा-स्वलिङ्गाः पार्श्वस्थादयस्ते च पूर्ववत्। गृहिणस्तस्करास्ते उपधिप्रभृतीनपहरन्ति। अन्ये वा स्वलिङ्ग-गृहिभ्यो व्यतिरिक्ताः, ते च भिक्षुकादयोऽवगन्तव्याः, ते क्षुल्लकादीन् व्युद्ग्राह्यापहरन्ति ॥ ९९२॥ गाथा ९९१-९९७ द्विविधः विहारः समाप्तकल्प उसमाप्त कल्परूपः ५२८ (B) १. अन्ना वा- ला. पाठभेदः॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy