SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् तृतीय उद्देशक ७७० (B) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ अवलक्खणा अणरिहा, अच्चाबाहादिया य जे वुत्ता। चउरो य जुंगिया खलु१०, अच्चंतिय भिक्खुणो एते ॥ १६३०॥ अबहुश्रुतो नाम येन आचारप्रकल्पो निशीथाध्ययननामकः सूत्रतोऽर्थतश्च नाधीतः १। अवमो नाम त्रिवर्षारतो यस्य प्रव्रज्यापर्यायेण त्रीणि वर्षाणि नाद्यापि परिपूर्णानि भवन्तीत्यर्थ:२। प्रतिसेवको नाम यो भिक्षुः निष्कारणे कारणाभावेऽपि पञ्चकादीनि प्रायश्चित्तस्थानानि || प्रतिसेवते३। अयतो नाम य: कारणे समुत्पन्नेऽयतनया प्रतिसेवते ४। ॥ १६२८ ॥ आत्मचिन्तको योऽभ्युद्यतविहारमभ्युद्यतमरणं वा प्रतिपत्तुं निश्चितो निश्चितवान् ५निरपेक्षो बालादिषु बाल-वृद्धाऽसह - ग्लानादिषु चिन्तारहित:६, प्रमत्तः पञ्चानां प्रमादानामन्यतरेण | प्रमादेन युक्तः ७। असत्ये मृषाभाषणे असंयमे वा रुचिर्यस्यासावसत्यरुचिः स भवति |१६२७-१६३४ मायी, किमक्तं भवति-अभीक्ष्णं मायाप्रतिसेवनशीलो मायीति८॥ १६२९॥ अपलक्षणा आचार्या दिपादश्योग्याः येषामाचार्यलक्षणानि न विद्यन्ते ये च पूर्वमुक्ता अत्याबाधादय एते सर्वेऽनर्हाः९ । जुङ्गिका जातिकर्म-शिल्प-शरीरभेदतश्चतुर्धा, एतेऽपि प्रागुक्ताः१० । एते सर्वेऽपि भिक्षवोऽत्यन्तमाचार्य- ७७० (B) त्वादिपदानामनर्हाः यदि पुनरबहुश्रुतोऽपि बहुश्रुतो भवेत्, अवमोऽपि त्रिवर्षपर्यायोत्तीर्णः, गाथा For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy