SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७३९ (B) स यद्वशान्मारिदोषोपहतं, दुर्भिक्षप्रचुरं यद्वशाद् सर्वत्र दुर्भिक्षमुपपतति। चोरप्रचुरं यद्वशाहवश्चौरा उच्छलन्ति। धनहानि: यतः सर्वत्र धनक्षयः सम्भवति, धान्यहानिः यत्प्रभावाद् वृष्टेपि मेघे सस्यनिष्पत्तिस्तादृशी नोपजायते। कोशहानि: यतः कोशक्षयः । बलवत् प्रत्यन्तराजकं यतो बलवन्तः प्रत्यन्तराजानः सम्भवन्ति। एते कस्याप्येकः, कस्याप्यनेके, कस्यापि सर्वे दोषाः। ॥ १५४७ ॥ अधुना गुणानाह खेमं सिवं सुभिक्खं, निरुवसग्गं गुणेहिं उववेयं। अभिसिंचंति कुमारं, गच्छे वि तयाणुरूवं तु ॥ १५४८ ॥ क्षेमं नाम सुलक्षणं यद्वशात्सर्वत्र राज्ये नीरोगता, शिवं यतः सर्वत्र कल्याणं, सुभिक्षं यतः सर्वत्र सुभिक्षसम्भवः, निरुपसर्ग यतः सकलेऽपि देशे मारि-डमराद्युपसर्गासम्भवः । एतेऽपि गुणाः कस्याप्येकः कस्याप्यनेके कस्यापि सर्वे। तत्र यथा सर्वथा दोषापेतमधिकृतैश्च गुणैः सर्वैरप्युपेतं कुमारं राजामात्यादयो राज्येऽभिषिञ्चन्ति। तथा गच्छेऽपि तदनुरूपं राजकुमारानुरूपं सर्वथा दोषविनिर्मुक्तमेकान्ततो गुणैरुपेतमाचार्यपदे सिञ्चन्ति ॥१५४८ ॥ . गाथा १५४४-१५४८ नायकगुणाः ७३९ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy